________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 323 दृष्टेंऽशमात्रे ताप्यं चित्रणीयमिति त्वया / ___ मृगावत्या ऊरुतिलचित्रं दृष्ट्वा नृपो जगौ // 330 // वध्योऽयमिति लोकेन वरोक्त्या रक्षितस्य च / अङ्गुष्ठच्छेदमादिक्षत् क्रुद्धश्चित्रकरस्ततः // 331 // गत्वाऽवन्त्यां मृगावत्या रूपात् प्रद्योतमोहनात् / 'आगते सबले तस्मिन् शतानीको व्यपद्यत // 332 // शीलात्मजादिरक्षार्थ वप्रकृत्यमिषात् समाः। अतिचक्राम चकमे जिनागमं मृगावती // 333 // समागमे सभामध्ये प्रद्योतानुज्ञया ज्ञया / जगृहे व्रतमार्यायाश्चन्दनायाः पदे स्थितम् / 334 / अत्र या सा सेति विभोर्वाचं श्रुत्वाऽथ गौतमः / - अप्राक्षीत् सा केति विभुः प्रोचे चम्पापुरी पुरा // 335 // . स्त्रीलम्पटः स्वर्णकारः कन्यापञ्चशतीं धनैः / :: परिणिन्ये परं वारं विनाऽन्याऽऽनलङ्कृता // 336 // - भुक्थं स्वजनं कश्चिन्न निनाय गृहे निजे / स्वयं नायादन्यगृहेऽपीालुः स्त्रीषु रक्षणे / 337 / कदापि देवादन्यत्र गतेऽस्मिन् स्नातभूषिताः / / __ता दृष्ट्वाऽताडयच्चैकां मृता साऽन्याभिरीक्षिता // 338 // दर्पणैस्तं प्रजहस्ता लज्जया ज्वलिताः सह / पञ्चैकोनशतान्यासन् चौराः पल्लीनिवासिनः // 339 // प्राङ्मारिता स्त्री तिर्यक्षु भ्रान्त्वा विप्रसुतोऽभवत् / प्राक् कलादस्तद्भगिनी जज्ञे भ्राता ररक्ष ताम् // 340 // तस्या योनिस्पर्शकारी तपितृभ्यां निजौकसः / .. निर्वासितस्तत्र पल्लयां गतः प्राप्तवयाश्च सा // 341 // चौरैता भुज्यमाना तैर्दयाहृदयाश्रयात् / अन्यस्त्री संगृहीता तां कूपपाताज्जघान सा // 342 // विप्रेण भगवान् पृष्टस्तत्कामातिशयं विदन् / ' या सा सा सेति वचनाद् दीक्षां जग्राह स द्विजः // 343 / /