________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 315 तृतीया सा चतुर्मासी चम्पायां चरमार्हतः / तत्र द्विमास्या वणिजो गृहे पारणमप्यभूत् / 194 / कोलाकसन्निवेशे च द्वितीया पारणा प्रभोः / प्रतिमायां शून्यगेहे दास्या रेमेऽत्र सिंहकः // 195 // हसन् मांखिहतोऽनेन चपेटाभिर्गते गृहे / __ तस्मिन्नाह स्म वो दृष्टौ स्वामिन् किममुना हतः // 196 // सिद्धार्थः प्राह मा कार्षीश्चापलं पुनरीदृशम् ! / स्वामी पात्रालकं प्राप्तस्कन्दान्मांखिश्वपेटिकाम् // 197 // कुमारसन्निवेशेऽर्हन् प्रतिमामदधान्निशि / मद्यासक्तकुलालस्य मुनिचन्द्रो गृहेऽवसत् / 198 / भिक्षार्थी मांखलिः पार्श्वशिष्यान् ददर्श संयतान् / _ विचित्रवस्त्रान् पात्रादिधारिणस्तानुवाच सः // 199 // के यूयं का धृता गच्छ सामाचारीति ते जगुः / श्रीपार्श्व शिष्याः स्मस्त्वं तु कः कीदृग् वा गुरुस्तव // 20 // इत्यादि वादिनि पुनः साधौ मांखिरदाच्छपम् / उपाश्रयो वो दग्धोऽस्तु मद्गुरोस्तपसाऽमुना // 201 // नेयं भीन इति प्रोक्तं तैः कथं नैषुस्तद् भयम् / सिद्धार्थोऽप्यवदन् मूढ ! यतस्तेऽपि तपस्विनः // 202 // निशायां मुनिचन्द्रस्तु चौरबुद्धया हतो मुनिः / मत्तेन कुम्भकारेण जाताऽवधिर्ययौ दिवम् // 203 // गोशालोऽप्यभ्यधादेष दह्यते तदुपाश्रयः / अवोचत स सिद्धार्थों मा मंस्था मूढ तादृशम् / 204 / सूरिदिवंगतस्तस्य महिम्नि विबुधागमात् / प्रकाशोऽयं न जज्वाल स्थानं न व्यालभीरपि // 205 // चोराके प्रभुरायातः कायोत्सर्ग स्थितो निशि / पृष्टः प्राह रिकैमौनाज्जगृहे मांखिना समम् // 206 // सोमा जयन्ती श्चीपार्थशिष्ये ताभ्यां निवारितः / / . उपसर्गः पृष्ठचम्पादेवोऽगात् तुर्यवार्षिके // 207 // 'चतुर्मासीतपस्तत्र कृत्वा कयंगले ययौ / प्रतिमास्थे प्रभौ मांखिहास स्थविराऽधनान् / 208 /