________________ 314 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्री वर्धमान - नालन्दायां राजगृहे मासक्षपणवान् जिनः / शालायां तन्तुवायस्य तस्थावेकत्र कोणके / 179 / पारणायां पश्चदिव्यमहिमानं निभालयन् / कोऽपि मंखात् सुभद्रायां जातो मङ्खलिराययौ // 180 / / बहुलद्विजगोशालाजातत्वात् स तथाह्वयः / स्वामिनः पार्श्वमासेवे लब्धं देवेन भैक्षकृत् / 181 / आद्याऽर्हतः पारणाऽभूद् विजयश्रेष्ठिनो गृहे / द्वितीयानन्दसदने खाद्यकैराज्यमिश्रितैः // 182 // तृतीयमासक्षपणे सुनन्दगृहिणा प्रभुः। सर्वकामगुणाख्येनाऽऽहारेण प्रत्यलाभ्यत // 183 // एकदा भगवान् पृष्टो गोशालेन किमाप्स्यते / भिक्षायामिति सिद्धार्थः संक्रान्तः स प्रभौ जगौ // 184 // धान्याम्लकोद्रवकूर लप्स्यसे कूटरूपकम् / तदेव भ्रमताऽनेन प्राप्तं नियतियोगतः // 185 // यद् भावितस्तु तदुपस्थायीति नियतिढम् / गोशालकेन जगृहे द्वितीया प्रावृडित्यगात् // 186 // तुर्य पारणमीशस्य कोल्लाके बहुलौकसि / गोशालोऽप्याययौ पश्चदिव्यश्रवणतः क्षणात् // 187 // ततः स्वर्णखलं स्वामी चचालाध्वनि पायसम् / पच्यमानं गोपलोकैर्गोशालः प्रेक्ष्य चाब्रवीत् // 188 // क्षुधितः पायसं पीत्वा यास्यामि स्वामिसन्निधौ / __ सिद्धार्थः प्राह तद्भङ्गं श्रुत्वा सा रक्षिताप्युखा // 189 // भूरितन्दुलनिःक्षेपात् स्फुटिता स्थालिका पुनः / जग्राह नियतिं मांखिमिणग्रामसङ्गमे / 190 / स्वपाटकप्रविष्टोऽर्हन् नन्देन प्रतिलाभितः / उपनन्देन गोशालोऽप्यभोजि कुत्सितान्नतः // 191 // मद्धर्माचार्यतपसा दह्यतामस्य मन्दिरम् / मा स्वामिनामग्रहणाद् वन्ध्यः शापोऽपि भूदिति // 192 // तत्रस्थव्यन्तराः समाऽधाक्षुमक्षुतृणौघवत् / तपोऽर्हतां सत्यमेव स्फुरिता वाक् तदाश्रयात् // 193 //