________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [313 नागसेनः पायसेन मुनीशं प्रत्यलाभयत् / प्रदेशीमहिमां चक्रे श्वेताम्ब्यां परमेशितुः / 164 / अन्तराऽगान्नदी गङ्गा सिद्धदत्तोऽत्र नाविकः / आरोहयामास देवं नावं नावं शुभं वहन् / 165 / घूकस्य वाशितं श्रुत्वा क्षेमिलः शकुनं विदन् / विघ्नोऽत्रास्ति परं स्वस्ति भाव्यं भव्यमुनेः स्थितेः // 166 // गाढरोषात् सुदाढोऽपि नागकुमार आगमत् / जीवः पूर्वभवं पूर्वविष्णुध्वस्तहरेश्वरन् / 167 / वातोत्सर्पणताक्षुभ्यजलकल्लोलवर्द्धनैः। क्रियमाणस्य देवेनोपसर्गस्य भियाऽभवत् // 168 // तां पराचक्रतुर्देवौ नाम्ना शम्बलकम्बलौ / नागौ तदानीमुत्पन्नौ विहाय वृषभोद्भवम् / 169 / मथुरायां जिनदासो वणिक् तस्याऽस्ति गेहिनी / __साधुदासी शुभा द्वाभ्यां व्रतद्वादशिका दधे // 170 // चतुष्पदस्य नियमात् क्रीयमाणघृतादिना / _ विधीयमाने निर्वाहे जाताऽऽभीरीस्त्रियाः सखी // 171 // तस्याः पुत्रविवाहे यद् युज्यते वस्त्रभूषणम् / वितीर्ण श्रेष्ठिना तेनोत्सवोऽप्यभूददूषणम् // 172 // ततस्त्रिवर्षको वत्सौ वात्सल्यादुपदीकृतौ / शम्बलः कम्बलश्चेति नाम्ना प्रवरलक्षणौ / 173 / अनिच्छयाऽपि चाभीरी मुक्त्वा तौ स्वगृहं गता / / धर्मार्थिना श्रेष्ठिनाऽपि क्रियते सारणा तयोः // 174 // * अष्टम्यां च चतुर्दश्यां श्रेष्ठिनो झुपवासतः / / ___ तौ शान्तौ भद्रकौ जातौ श्रुत्वा पुस्तकवाचनाम् // 175 // यदोपवासो भवति श्रेष्ठिनस्तावपि ध्रुवम् / न घासपासमश्नीतः पिवतः प्रासुकं जलम् / 176 / एकदा चोपवासस्य दिने 'स्वानसि योजनात् / भ्रामणाद् वेगतः खिन्नौ वीक्षितौ श्रेष्ठिना वृषौ // 177 // कारिताऽनशनौ मृत्वा जातौ नागकुमारको। गृहीत्वैकेन नावं चान्येन सो निर्जितः सुरः // 178 // 1. स्वानसि स्वशकटे / 'ल. त्रि. 40