________________ 302 1 महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीपार्श्व अभ्यस्य सम्यक् चरितं समस्य कल्पद्रुमस्येष्टविधौ समस्य / श्रीपार्श्वभास्वत्स्मरणं व्यधायि तेनाऽस्तु तत्सन्निधिरेव नित्यम् // 490 // आयुः साष्टशतं समाः अवगमाः सर्वे समागीष्पते रैश्वर्य शुचिरस्य धीस्सकमलासिद्धिः करस्थायिनी / न व्याधिर्न कथा नवाप्यरिकथा बाधा न साधारणा / ___ भूयाद् भूरिसुखं नृपादपि कृपालक्ष्मीर्यशोमङ्गलम् // 491 // श्रीहेमचन्द्रोदितजैनवाक्याम्भोधेविंशोधेरिव शुद्धबोधे / उद्धृत्य मेधेन भृते सुधायाः कुम्भोपमेऽभूनवमं सुपर्व // 492 // इति श्रीलघुत्रिषष्टीये पार्श्वभगवच्चरिते विनयविलासेऽष्टमसर्गोद्धारः सम्पूर्णः // श्रीः / ग्रं. 492 श्लोकः / श्रीवर्धमानमहावीरचरितम् / अथ श्रीवर्धमानस्य वर्द्धमानस्य तेजसा / श्रीवर्द्धमानादेशेन वृत्तं प्रस्तूयतेऽधुना // 1 // जम्बूपलक्षिते द्वीपेऽन्तरीपे लवणाम्बुधः / क्षेत्रं नेत्रमिवाऽवन्याः पवित्रं भरताह्वयम् // 2 // महावप्रान्वयाद् वीरविजये विजयाश्रये / प्रत्यग् विदेहेषु पुरी जयन्ती सुमनःप्रिया // 3 // यत्राऽस्ति नगरी कश्चित् पूर्यस्या न गरीयसी / ___ यद्वप्रोनगरीत्यैव रम्या सा नगरी न किम् ? // 4 // जयन्ती दिव्यनाम्नैव जयन्ती रक्षसां पुरीम् / ___ जलधौ कलधौतात्मा साऽवशिष्टा हियाऽविशत् // 5 // सुधावद् वसुधा यस्यां स्वादुस्तद्विबुधाश्रिता / तद्धारापनयान्मन्ये द्यौरुच्चैव नभःस्वता / 6 / पराक्रमभयाद् यस्य शक्रः संक्रन्दनोऽन्वहम् / जनार्दन इव श्रीमान् राजाऽस्यां शत्रुमर्दनः // 7 // राजा व्याजात् परोऽमुष्याश्चक्रे वक्रं निजं न सः / न पूर्णमण्डलैश्चर्यचित्रं तनिष्कलङ्किते // 8 //