________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 301 कदा नो भविता मोक्ष इति प्रश्ने विभुर्जगौ / अस्मिन्नेव भवे तेन ज्ञात्वा लिङ्गमिमेऽमुचन् // 475 // प्राप्तेषु तेषु निर्वाणं प्रवृत्तं बौद्धशासनम् / __ चत्वारोऽन्तिपदः पार्श्वप्रभोस्ते ध्वस्तकल्मषाः // 476 // नागपुर्या बन्धुदत्तः सुतो धनपतेर्धनी / तत्कथान्तः कथादेशि श्रीगुप्तस्याऽपि शम्भुना // 477 // प्रश्नस्येव सुधर्मस्य कार्ये तर्कः सुदुर्लभः / वृद्धापुत्रागमप्रश्न इहोदाहरणं स्फुटम् // 478 // प्रव्रज्य प्रभुपादान्ते तपः कृत्वाऽतिदुष्करम् / केवलज्ञानमासाद्य सद्यः शिवपदं ययौ / 479 / एवं षोडशसाहस्री यतीनामभवत् प्रभोः / ___ अष्टात्रिंशत् सहस्त्री तु श्रमणीनां गुणाग्रणीः // 480 // लक्षमेकं श्रावकाणां चतुष्पष्टिसहस्रयुक् / त्रिलक्षी श्राविकाणां च सहस्राः सप्तसप्ततिः // 481 / / शतत्रयी सपश्चाशत् स्याच्चतुर्दशपूर्विणाम् / चतुर्दशशतान्यत्राऽवधिज्ञानितपस्विनाम् // 482 // मनोज्ञानां सप्तशती सार्द्धा केवलशालिनाम् / सहस्रं वैक्रियकृतां तदेकशतसङ्गतम् // 483 // वादिनां षट्शती जज्ञे परिवारोऽयमाहतः / सात्त्विकस्तात्त्विको मत्वा संमेतादि ययौ जिनः // 484 // त्रयस्त्रिंशत् मुनियुतस्तत्रारुह्य जगद्विभुः / प्रपनानशनः प्रापदपापः सिद्धिसम्पदम् // 485 // श्रावणस्य सिताऽष्टम्यामाश्रवावासवाः समे / समेत्य मोक्षकल्याणं विदधुर्मधुराशयाः // 586 // रत्नस्तूपं विधायाऽद्रौ सुधर्मायां विनिन्यिरे / - दंष्ट्रा जिनस्य तत्पूजाश्चक्रुः शक्रादयः स्वयम् // 487 // श्रीपार्श्वनाथस्य दशावतारा गणेशिनां तस्य दशावताराः / . तद्ध्यायिनां स्युस्त्रिदशावताराः मनुष्यभावे सुदशावताराः // 488 // उत्पत्तिरीशः शिवपूर्वपुर्या कैवल्यलब्धिः शिवपूर्वपुर्याम् / नित्या स्थितिः श्रीशिवपूर्वपुर्या पूज्या तनुस्तच्छिवपूर्वपुर्याम् // 489 //