________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् भृत्यः कृत्यविधौ नृत्यन् ग्रामणीषु दिवामणिः / नयसारो यथार्थाह्वः सवने' स वने ययौ // 9 // सार्थाद् वियुक्ताः श्रमणाः भ्रमणात् क्रमणार्दिताः / अनेनसानेन भोज्यव्रतिनः प्रतिलाभिताः // 10 // सोपस्कारं नमस्कारं स्पष्टाऽष्टापष्टिवर्णिनम् / तेभ्यः प्राप्य ससम्यक्त्वोऽसौ सौधर्मसुरोऽभवत् // 11 // ततश्च्युत्वाऽत्र भरते भरतेशस्य नन्दनः / मरीचिर्वीचिमुत्सृज्य भवाब्धेतमाददे // 12 // पूर्वमुग्रविहारेणाऽवसनीभूय संबधीः / दुलिङ्गमाश्रयद् दण्डत्रयमुत्सूत्रनिर्भयः // 13 // विना लोचं द्विधा शौचं स्नाने पाने च पाथसा / कुर्वाणः प्राणसौरख्यायाऽग्रहीदप्रासुकं पयः // 14 // सकषायत्वबोधाय कषायवसनः शिखी / शिखी वाणुव्रतीत्येव धिया नृत्यमसाधयत् // 15 // अन्यदा भरतोऽपृच्छद् भगवन्तमिहादिमम् / कोऽप्यस्यां भरते भावी सभायां तीर्थकृत्प्रभो ! // 16 // प्रभुरप्याह पुत्रस्ते मरीचिश्वरमो जिनः / भविष्यति महावीरः श्रुत्वेत्युत्तस्थिवान् नृपः / 17 / आद्योऽर्द्धचक्री भरते चक्री विदेहसम्पदे / ..' भावी गुरुवीरनामा पश्चिमोऽपश्चिमोऽर्हताम् // 18 // ननर्त तद्वचः श्रुत्वा कुर्वन् जातिमदं तदा / बबन्ध नीचैर्गोत्रं तत् कर्मभोग्यं भवोदधौ / 19 / भाविनाऽस्यैव शिष्येण कपिलेन यदोदितम् / प्रबोध्य दीयते शिष्यस्तत किं धर्मोऽत्र नास्ति वः // 20 // ततो मरीचिरप्यूचे धर्मोऽस्त्यत्रापि तत्र च / वाचानया कोटि कोटि प्रमिताधिर्भवोऽभवत् // 21 // उत्सूत्रं चेतसाऽप्येतदनालोच्य स पश्चमम् / - स्वर्ग लेभे दशान्ध्यायुर्मरीचिः कपिलोऽपि सः // 22 // 1 सवने सजले। 2 अनेनसा पापरहितेन /