________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 283 नाशौचमपि धर्मः स्यात् न शौचमपि केवलम् / तुलादण्ड इव श्रेयो माध्यस्थ्यं व्यवहारतः // 202 // सिद्धान्तपाठेऽस्वाध्यायदिवसः शौचचिन्तनात् / शौचप्रधानाः स्थविरा इत्यागमगिरः स्फुटाः // 203 // वस्त्रादिधावनात् स्नानात् भूषणात् कामविप्लवः / तच्छीललीलारक्षायै मुनेरशौचमिष्यते // 204 // स्नानं मनोमलत्यागो दानं त्वभयदक्षिणा / ज्ञानं तत्त्वार्थसम्बोधो ध्यानं निविषयं मनः // 205 // न्यायधर्मस्थितो जीवो राजलोकेऽपि पूज्यते / वध्योऽन्यायी चौरमुख्यो धर्माधर्मफलं त्यदः // 206 // अथैकदा भूपशुको राज्ञीभावजिघृक्षया / निर्जीवगृहगोधाङ्गे प्राविक्षत् तच्छरीरमुक् // 207 // राज्ञी शुकं मृतं ज्ञात्वा विललाप भृशं शुचा / - तदङ्गेन समं दग्धुं सजां तां शुश्रुवान् द्विजः // 208 // हा मेऽनया विना राज्यं शून्यं निष्कमलं वृथा / इत्याकुलः . कीरतनौ विवेश द्विजभूपतिः // 209 // विक्रमः समयं मत्वा गृहगोधावपुस्त्यजन् / स्वाङ्गे प्रविष्टः शुशुभे प्रोद्यन्निव दिवाकरः // 210 // अभिज्ञानादिसन्धानाद् भूपस्वरूपदर्शनात् / राजद्राजोचिताऽऽचाराजहर्ष कमलावती / 211 // द्विजकीरो निजं निन्दन राज्ञा प्रोत्साहितः पुनः / / खेदं मा कुरु भूयास्त्वं सुखी गच्छ यथेच्छया // 212 // नेयं विद्या विना जीवं सम्भवेत् विनयादृते / विनयाद्या गुणा न स्युर्गुणिनं चेतनं विना / 213 // विनये विक्रमकथां विवेके सुमतेस्तथा / सत्त्वे हरिश्चन्द्रवृत्तिः सत्सङ्गे च प्रभाकरः / 214 / इति श्रीगुरुयोगेन कुबेरोऽपि प्रपन्नवान् / जीवं धर्म च संशुद्धं बुद्धः श्रद्धासमृद्धिवान् / 215 / वज्रवीर्य सुतं न्यस्य स्वराज्ये व्रतचारिणि / वज्रनाभः प्रभुभूमेः पालनं चकवाँश्विरम् / 216 / विजयाकुक्षिसम्भूतस्तनयोऽस्य प्रशस्यधीः / चक्रायुध इति ख्यातः सञ्जातस्तातभक्तिभाक् // 217 //