________________ 282 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपार्श्व ईशाक्षिज्वालया दग्धः कामः संजीवितः क्षणात् / ईक्षणादेव तद्भक्तिः शक्तैर्व्यक्तैविधीयते // 188 // इति चातुर्यमाधुर्याद् दासी राज्ञीजनान्तिकम् / ___ तं निनाय च काव्यादेरुक्त्या तां सोऽप्यरञ्जयत् // 189 // दिवि वामभुजस्थत्वाद् भारोद्धाराय विक्रमः / प्रतिमानमिव क्षोणी धत्ते दक्षिणबाहुना // 190 // सा हसित्वाऽऽह कीर त्वमियतेदं ब्रवीषि यत् / ___ धरैश्वर्य विना नारीभारः क्रष्टुं न शक्यते // 191 // छंदः पाठे पुरः कोऽर्णः किं बीजं विनयाश्रये / ___ कार्यार्थि कीदृशं कार्य भृत्यस्येशा प्रशस्यते // 192 // भणने मध्यगः कः स्यात् परोक्षाप्रत्यये पुरः / क्रमेण क्रमणे चान्त्यश्वरणे करणे तथा / 193 / पदवान्नभिषिक्तो यो वर्णातीतोऽपि वर्णवान् / न जाडथसूः समुद्रोऽपि वावदूको न मूकवत् // 194 // लेखः 'अगजात्यन्तकृत् सिंहः स मात्राधिककष्टभित् / उत्सूत्रचारी ससूत्रः ततः पाश्चालिका भवेत् // 195 // सूत्रधारः. आर्याऽपि गुरुणा सेव्या लघुनाऽपि गणे स्थिता / जघने चपला काचित् मुखे वा चपलाऽपरा // 196 // आर्या परस्परमिति प्रश्नोत्तरदानादिना दिने / कीरेण रञ्जिता राज्ञी दूरे तं नामुचत् क्षणम् / 197 / कमलावत्यपि शुकं जीवनं वा मृतिस्त्वया / देवं करोति चेदिष्टं सुखाय मम चेत्यवक् // 198 // देव्या पृष्टो धर्मतत्त्वमवादीदाहतं मतम् / परोपकारः पुण्याय पापाय परपीडनम् // 199 // नास्त्यहिंसासमो धर्मो न सन्तोषसमं व्रतम् / न सत्यसदृशं शौचं शीलतुल्यं न मण्डनम् // 200 // सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं जलशौचं च पञ्चमम् // 201 // 1. अगाः वृक्षाः तेषां जातेः अन्तकृत् / 2. पाश्चालिका पुत्तलिका /