________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 281 तमारराध तत्रैत्य विक्रमो विनयी नयी / यथावसरसेवाभिस्तस्य सोऽभूद् वशंवदः / 174 / एकस्तत्र सूत्रकण्ठः पूर्व विद्यार्थमाश्रितः। परं प्रकृत्या फुटिलो विनयोऽप्यस्य नोज्ज्वलः // 175 // विक्रमाय क्रमात्तुष्टस्तमुवाच विदांवरः / वत्स किं सततं सेवां कुरुषे पुरुषेश्वर // 176 // निर्बन्धे स्वाशये प्रोक्ते विद्यां दातुमथोत्सुकम् / .. गुरुमूचे पूर्वमस्मै दत्त्वा मह्यं प्रदेयातः // 177 // अयोग्योऽयमिति वदन् ददौ भूपाग्रहाद् गुरुः / विद्यामस्मै ततो राज्ञे विससर्ज गुरुश्च तौ // 178 // साधयित्वाऽस्य तां पश्चात् स्वयं संसाध्य वा ययौ / अवन्त्यां तु पट्टहस्तिमरणे तां परीक्षितुम् // 179 // भूपो गजे प्रविवेश स्वां तनुं रक्षितुं द्विजम् / नियुज्य सोऽपि दुष्टात्मा भूपाने प्राविशच्छलात् // 18 // राजक्रियामजानानश्चकितप्रायचेतनः। सिंहासने स्थितः सर्वैः सामन्तायैर्नतः स्तुतः / 181 / अनभिज्ञानसन्धानाद् राझ्या सम्भ्रान्तचेतसा / . - अप्रवेश्यः कृतो दास्या कपटात् तन्वपाटवात् // 182 // विदेशादागतो राजा विलक्ष इव लक्ष्यते / . इति हस्तिपकप्रोक्त्या खिन्नोऽमँस्त निजं जडम् // 183 // मा पापो मामिहारुक्षत् पृष्ठे कृत्रिमभूपतिः। ध्यायने राजकरी बलाद् वनमुपेयिवान् / 184 / वटाधः श्रान्तदेहोऽस्थाद् गजाङ्गमोक्षतः शुकम् / मृतं दृष्ट्वाऽविशत् तस्य देहं सन्देहवर्जितः // 185 // व्याधमाख्यच्छुकः शौकमाहत्य शोकं मा गमः / - तदवन्त्यां पुर्यवन्त्यां मां नयन् लप्स्यसे धनम् // 186 // तेन नीतश्चत्वरादौ पठन् कीरो यथेप्सितम् / धनमस्मै दापयित्वा ययौ चेटीकराम्बुजे / 187 / 1 तनौ शरीरे मम सुखं नास्तीति / 2 शौकं शुकसमूहम् / ल. त्रि. 36