________________ 280 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपार्श्व गवाक्षवच्चक्षुरादिरक्षवर्गस्तदीक्षकः / मध्यस्थपुंवदास्थेयः स्थैर्ये श्रेयःप्रसाधकः // 160 // तनुर्भस्त्रा तनुःश्वासव्यासस्तत्राक्षगोचरः / तत्प्रेरकं विना मर्त्य नाऽयं न्यायस्स चात्मनि // 161 // यजज्ञानाभ्युदयः पञ्चभूतेभ्यो लभ्यते त्वया / किं न वक्ति यथाशक्ति व्यक्तिः प्राग्वनृणां तनोः // 162 // श्वासाभावादिति षे तदात्मा श्वास एव सः। रोगादाधिक्यतस्तस्याशङ्क्यो ज्ञाने महोदयः // 163 // यद्वा पवननाशेन जायन्ते तत्र जन्तवः / तेषां श्वासस्थिराभ्यासात् किं न प्राग्वन्मृते वचः // 164 // धरायां मातरीवाऽमी जायन्ते शाखिनः समे / वर्द्धन्ते हन्त शिशुवन्म्रियन्ते समयामयात् // 165 // भूतानां समुदायेन चैतन्यं जन्यते यदि / प्रत्येकाद् व्यतिरेकोऽस्य सभ्यैर्लभ्येत किं न सः // 166 // यथा रेणुकणे तैलमसत् तस्याश्चये तथा / एवं भूम्यादिजीवानामपि सिद्धिजिनैः स्मृता / 167 / दुःखिनः सुखिनः केऽपि निर्द्धनाः सधना अपि / ___ मूर्खाः केचन विद्वांसः सुरूपाः केऽपि कुष्ठिनः // 168 // धर्माधर्मफलं चैवं जीवोऽध्यक्षस्तदाश्रयः / गुणवान् स सदा सेव्यस्त्याज्यो दूराद् गुणोज्झितः // 169 // . विनयश्च विवेकश्च सत्त्वं सजनसङ्गतिः / ___ गुणाः सुखाय लोकेऽपि केऽपि लोकोत्तरास्त्वलम् // 170 // विनयाद् विक्रमोऽद्याऽपि गीयते वाङ्मयादिषु / परकायप्रवेशाख्यविद्यया निरवद्यया / 171 तत्कथा चैवम्अवन्त्यामेकदा भूपो विक्रमोऽपृच्छदास्तिकान् / विद्याऽनवद्या का नास्ति मत्पुर्या सा निवेद्यताम् // 172 // कोऽपि वैदेशिकः प्राह परकायप्रवेशिनी / क्वाऽस्तीति पृच्छया सिद्धेश्वरे सा श्रीगिरौ नरे // 173 //