________________ 284 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपार्श्व अन्यदा सम्पदा योगं नियोगमिव चञ्चलम् / भावयन् भवकान्तारमुत्तितीर्घरभूद् व्रती / 218 विहरन विजये नाम्ना सुकच्छे जग्मिवान् मुनिः / चरँश्चारणवद् व्योम्ना धाम्ना स्नातरविप्रभः // 219 // सर्पजीवोऽपि नरकान्निर्गतो दुर्गतोपमः / तत्रैव दैवयोगेनाऽवतीर्णो ज्वलनाचले // 220 // कुरङ्गनाम्ना भिल्लानां तल्लजो वल्लिवेष्टनः / शरेण पूर्ववैरेण वज्रनाभं निजनिवान् // 221 // मध्यप्रैवेयके मृत्वा ललिताङ्गः सुरोऽजनि / भिल्लोऽप्यापूर्य सौवायुः सप्तमी भुवमासदत् // 222 / / इति श्रीलघुत्रिषष्टीये भगवत्पार्श्वचरिते षष्ठसप्तमभववर्णनम् // .. जम्बूद्वीपे प्राविदेहे पुरन्दरपुरोपमम् / रम्यं सुरपुरं नाम धामभिः स्वचिंजित्वरम् / 223 / वज्रभृत्तेजसा वज्रबाहुस्तत्र धराधवः / श्यामीकृतारिलोकोऽपि यशोधव लितावनिः // 224 // प्रिया सुदर्शना तस्य दर्शनादपि चित्तहत् / तत्कुक्षौ वज्रनाभप्राक् सुरः समवतीर्णवान् / 225 / चक्रभृज्जन्मसंसूचिस्वप्नान् चतुर्दशाद्भुतान् / ददर्शापनसत्वा सा सत्त्वाशातुष्टमानसा // 226 // सुवर्णबाहुनामाऽस्याः क्रमेणाऽजनि चात्मजः / / प्रवर्द्धमानः स्पद्धिष्णुः समृद्धिरसशोषणः // 227 // पुण्यतारुण्यलावण्यनैपुण्ये जाग्रति ध्रुवम् / पुत्र राज्यभरन्यासात् प्रवत्राज स राजघः / 228 / सुवर्णबाहुभूपालोऽन्यदा वाहनसाधने / वक्रशिक्षावशाश्वेनापहतो वनमीयिवान् // 229 // पाययित्वा पयः पूर्व हयं पीतपयाः स्वयम् / अपश्यद्वनमेकत्र चन्दनैजितनन्दनम् // 230 // मुनीन् पश्यस्तत्र भूपः सन्तुष्टः स्पष्टचेतसा / नमतस्तस्य ताँश्चक्षुर्दक्षिणं स्फुरितं पुरः // 231 // तत्रैकां कन्यकां धन्यां पश्यन् स्वमप्यमन्यत / पुण्यपूर्ण तूर्णमीदृक् कन्यारत्नं मयैक्षि यत् // 232 // तवृत्तान्तं ज्ञातुमाख्यदमुष्याः सख्यशालिनीम् / के युवां वा कुतः प्राप्ते तपोवनं तपस्विनाम् // 233 // आचख्यौ तनया राजन्नेषा रत्नपुरेशितुः / विद्याधरेन्द्रस्य रत्नावलीकुक्षिसमुद्भवा // 234 //