________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 273 कमठोऽपि शठः सर्वैस्तापसैः पापसेवधिः / निन्द्यमानोऽजनि वने मृत्वाऽसौ कुक्कुटोरगः // 60 // प्रासुकाम्भः पिबन दृष्टो दष्टो दुष्टेन तेन सः / कुम्भे ज्ञात्वा विषावेगं प्रपन्नोऽनशनं करी // 61 // तस्मिन् मनागपि द्वेषमना नैष शमाश्रमः / मृत्वा देवोऽभवत सप्तदशान्ध्यायुः स्वरष्टमे // 62 // सुरैर्जयजयेत्याशीःप्रकाशीकृतपुण्यधीः / स्तूयमानस्तदुक्त्या स स्नात्वा सिद्धालये ययौ // 63 // प्रतिमादर्शनात् तुष्टः स्पष्टमानर्च ताः समाः। स्तम्भे माणवके दृष्टास्ततोऽस्थादिव्यभोगभाक् // 64 // ,. वरुणा करिणी साऽपि तपः कृत्वा द्वितीयके / विपद्याऽऽसीत् सुरी कल्पे भासुरीकृतदिङ्मुखा // 65 / / अनिच्छन्तीमन्यदेवं स्पृहयन्ती द्विपाधिपम् / सहस्रारमुपानिन्ये देवो देवीं क्रमेण ताम् / 66 / पूर्वस्नेहादसन्देहात् तीर्थे नन्दीश्वरादिके / तया सहार्चनैर्नृत्यैः पुरस्ताद् व्रतिनामपि / 67 / चिचाय पुण्यप्रागुण्यं प्रावीण्यादेव दैवतम् / कुक्कुटाहिस्तु मृत्वाऽऽसीनारकः पञ्चमावनौ // 68 // तस्यायुरन्धयः सप्तदशाऽऽसन् दुर्दशाजुषः / अहो वैरस्य वैरस्यं दुर्भवैरस्य यद् भुजिः // 69 // इति श्रीलघुत्रिषष्टीये भगवत्पार्श्वनाथचरित्रे भवत्रयवर्णननामा प्रथमो विश्रामः // प्रागविदेहे श्रिया गेहे सस्नेहे मरुतामपि / सुकच्छविजये स्वच्छे वैताढये तिलकापुरी // 70 // तस्या विद्युद्गतिर्भूपः स्वरूपजितवासवः / ___ वश्याः सर्वा दिशो येन कृताः स्वसुकृतान्नयात // 71 // 1. स्वरष्टमे अष्टमदेवलोके / ल. त्रि. 35