________________ 272 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीपार्श्व संसारासारताभावात् वैराग्यरसमीयुषः। ___ सद्यो जातोऽवधिस्तेन न्यस्तः स्वीयपदेऽङ्गजः // 47 // समन्तभद्राचार्याणां पार्श्वे व्रतमुपाददे / विजहे सोऽरविन्दर्षिः पुनानः पृथिवीतलम् // 48 // नानाभिग्रहवान् सार्थे सागरदत्तनायके / चचालाऽष्टापदे देवानरविन्दोऽभिवादितुम् / 49 / प्रश्ने सागरदत्तस्य व यास्यथेत्यवङ् मुनिः / / ___ ऋषभो भगवानहन् पूज्यः श्रीशकचक्रिणाम् // 50 // निर्वृतोऽष्टापदगिरौ तत्र तत्सुतचक्रिणा / भरतेनाकारि चैत्यं तन्नन्तुं यामि साम्प्रतम् // 51 // यतः परमते भागवतेअष्टमे मरुदेव्यां तु नाभेर्जात उरुक्रमः / दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतः // 52 // तत्रैवाऽग्रेनाभेरसावृषभ आस सुदेविस नुर्यों वै चचार समदृग् जडयोगचर्याम् / ___ यत् पारदस्यमृषयः पदमामनंति स्वस्थः प्रशान्तकिरणः परिमुक्तसङ्गः // 53 // अर्हद्विम्बं रवेबिम्बमिव जाडयं तमस्तथा / हरतेऽहरतेजस्त्वं 'निशो नाशयदुद्भवेत् / 54 / देवार्चनं च सद्दानं यो न कुर्यादनार्यधीः / स्वं स पुण्यस्य नैपुण्यं प्राक्कृतं कृन्तति ध्रुवम् // 55 // . अत्र वणिजोनिदर्शनम्श्रुत्वा सागरदत्तोऽभून् मुनिवाक्यादुपासकः / उवास सार्थों यत्रास्ते मरुभूतिर्गजो वने // 56 // साथै दृष्ट्वा क्रुधा धावन्नरविन्दमुनीक्षणात् / प्रशान्तः स करी साधोगिरा स्वां जातिमस्मरत् // 57 // करेणुवरुणा तद्वदस्मार्षीत् प्राक्तनं भवम् / तत्तद्गुरूदितं शृण्वन् श्रावकोऽभूत् स चेभराट् // 58 // सूरांशुतप्तपानीयपानं शुष्कदलादिभुक् / कुर्वन् षष्ठादष्टमादेस्तप्ता स विरतो रतात् / 59 / 1. अहः दिनं निशो रात्रेः अतेजस्त्वं अप्रकाशं नाशयन् उद्भवेत् /