________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 271 पोतस्तरति यत् श्वेतपटानुगमनाज्जलम् / तथा भवाम्बुधिः शुद्धगुरोस्तीर्यंत वीर्यतः // 29 // न्याये तिष्ठन् यथा शिष्टः सदस्यैः स प्रशस्यते / तथा दक्षैर्मोक्षमार्गपक्षकारी प्रतीक्ष्यते // 30 // ललिताङ्गकुमारस्य निदर्शनमिह स्मृतम् / तदन्यत्वे तु तभृत्यः सजनोऽपि विचार्यताम् // 31 // अत्र ललिताङ्गकथानिशम्य सम्यगुत्कर्णो मरुभूतिर्मुरोगिरः / धर्मकर्मणि निष्णातः समभूनिर्मलाशयः // 32 // हठान्मानप्रधानत्वात् कमठः शठतामठः / न तत्याज व्याजभावं शाम्बरीशबरीवशः // 33 // कदाचिन मदनालीढां जातरीढां स्वकां ततः / चकमे कमठः कान्तां मरुभूतेर्वसुन्धराम् // 34 // अनयोरनयोपेतं कार्य निश्चित्य साऽवदत् / वरुणाऽप्यरुणा क्रोधादबोधान्मरुभूतये // 35 // सोऽपि तन्निर्णयायास्थाद् वर्णीभूय गृहान्तरे / 'कमठानुज्ञया रात्री मिषाद् वेषविशेषतः // 36 // क्रोधानुरोधाद् भूभत्रै दुश्चरित्रं तयोरहः / व्यथया कथयामास वरुणां साक्षिकी सृजन् // 37 // तलारक्षं समादिक्षद् भूपस्तन्निग्रहाग्रही / अग्रहीत् सोऽपि कमळं बद्ध्वा निन्ये विडम्बनाम् // 38 // द्विजस्याऽवध्यतां मत्वा तं पुरान्निरवासयत् / तमोमलिने विपिने लीनो दीनमना निशि // 39 // अन्तःसन्तापभाक् प्राप श्रमेण तापसाश्रमम् / तपस्तेपे शिवाख्यानतापसादाप्तदीक्षणः // 40 // तादृशं भ्रातरि ज्येष्ठेऽनिष्टं कष्टं विचारयन् / - स्वं निनिन्द यथा हा मां येनेदं दुष्कृतं कृतम् // 41 // कियत्यपि गते काले तं च क्षमयितुं पुनः / नृपं पृष्ट्वा तरुवने मरुभूतिययौ रहः // 42 // पततः पादयोस्तस्य क्षामणाये क्रुधारुणः / मस्तके न्यस्तवानेकां शिलां तन्मृत्युहेतवे // 43 // मृत्वाऽभवत् करी विन्ध्यशैले जात्याऽपि भद्रकः / मरुभूतिर्ललँस्तत्र यूथनाथः करेणुभिः / 44 / वरुणाऽप्यस्य यूथान्तःकरेणुरभवत् प्रिया / तया समं स्वैरमसौ रमते स्म स्मरातुरः // 45 // इतः पोतननाथस्याऽन्यदा च शरदागमे / पश्यतो जलदासारं क्षणवीक्षितभङ्गुरम् // 46 //