________________ 258 ] महोपाध्यायभीमन्मेघविजयविरचितम् [ श्रीब्रह्मदत्त राजादेशाद् बहिः पुर्यास्तस्थतुः क्वापि पर्वणि / अनाज्ञातपदं प्राप्तौ कुट्टितौ यष्टिमुष्टिभिः // 16 // ततो विमृश्य स्वां जाति तित्यक्ष तां च झम्पया / ___ साधूक्त्या व्रतमापन्नौ चक्रतुः परमं तपः // 17 // हस्तिनापुरमायातौ चित्रे तूपवने स्थिते / सम्भूतो गोचरे भ्राम्यन् मासक्षपणपारणे // 18 // दृष्टो नमुचिना दूराच्छङ्कितेन निजांहसा / पत्तीन् प्रयोज्य सम्भूतं यष्टयायेस्तं स चार्दयत् // 19 // शान्तस्याऽपि मुनेरन्तःकोपानलसमुद्भवः / धूमभूमा पुरीभूमावुल्ललासान्धकारकृत् // 20 // पौरा भयात् ततस्तस्य शान्तये सामभाषणैः / प्रसादयितुमाजग्मुर्नमन्तो विनयादिना / 21 / चक्री सनत्कुमारोऽपि नमन् प्रशमकृगिरा / तमवोचन महर्षे किमारेभेऽनुचितं त्वया / 22 / पुरे नश्यज्जीवदाहं कुरुषे कुरुषेरितः / तपस्तरोः पल्लवने लबने यतसे नु किम् // 23 // प्रसाद्य सद्यस्तं चक्री वक्रीभूतं तदर्दकम् / पुरेऽनर्थकरं जाननमुचिं वध्यमादिशत् // 24 // मुनेरेव गिराऽमुश्चत् तं चकर्षाऽऽशु तत्पुरात् / स्त्रीरत्नवन्दने पादे तत्केशस्पर्शनात् पुनः // 25 // मुनिनिदानमकरोदीकस्त्रीरत्नभोगभाक् / भूयासं तपसाऽनेन भाविजन्मनि तन्मनाः / 26 / चित्रः सम्भूतसन्तापादाप पापविशुद्धये / विहितानशनी स्नेहात् सौधर्मस्वर्गमीयतुः // 27 // चित्रश्च्युत्वा श्रेष्ठिपुत्रः पुरे पुरिमतालके / सम्भूतजीवः काम्पील्ये पुत्रः श्रीब्रह्मभूपतेः // 28 // . मात्रा चुलन्या ददृशे स्वप्नाश्चतुर्दशाऽवशा / गर्भेऽवतीर्णे सम्भूते विभूतेः फलमाददे // 29 // तत्तद्दिनकृतोत्साहाज्जातः सूनुस्तया पिता / ब्रह्मदत्ताभिधां तस्य प्रशस्यदिवसे व्यधात् / 30 / ब्रह्मभूपस्य मित्राणि चत्वारि स्निग्धचेतसा / न कदापि वियुज्यन्ते रज्यन्ते नित्यसङ्गमे // 31 // कटकः काशिभूमीशो दीर्घश्व कौशलाधिपः / कणेरुदत्तो गजपूर्नाथश्चम्पापतिः पुनः / 32 / पुष्पचूलश्च पश्चाऽपि क्रीडन्ते काननादिषु / भुञ्जते स्वस्वसाम्राज्यं तिष्ठन्तश्चैकपुर्यपि / 33 / विगमे द्वादशाब्दानां मृते पितरि राज्यभाक् / ब्रह्मदत्तस्तस्य रक्षाकरो दीर्घः सदा स्थितः // 34 //