________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 255 सारङ्गो रङ्गतः कश्चित् पूर्वसङ्गतिकः स्वयम् / जातजातिस्मृतिः साधोराहारस्थानभावुकः // 522 // भ्रान्त्वा वने पान्थलोकान् पश्यन् सज्जीकृताशनान् / मुनि प्रज्ञापयन् पुच्छसंज्ञया तत्पुरोऽचलत् // 523 // एकदा दारुकं कश्चित् सिद्धानं प्रेक्ष्य तं मुनिम् / तत्रानिनाय दाताऽपि हर्षाद् दातुं प्रचक्रमे // 524 // धन्योऽयं विश्वमान्यो यः सिद्धानं मुनये ददौ / अहं तिर्यक् मुनीन् दातुं सेवितुं वाऽक्षमः सदा // 525 // त्रयोऽप्येवं ध्यानलीना अर्द्धच्छिन्नमहीरुहः / शाखापातान् मृता जग्मुर्ब्रह्मलोकं च पश्चमम् // 526 // रामो वर्षशतं दीक्षामादाय प्राप्तवान् दिवम् / / तृतीयां नरकक्ष्मां स दायादस्नेहतो ययौ // 527 // तं चाललाप रामोऽहं मोहं त्वयि बहुं वहन् / ब्रह्मलोकादागतोऽस्मि सौख्यं कर्तुं तवात्मनि // 528 // वदन्ने तमुद्दधे नारकं पाणिना ततः / पतन्तमेवमद्राक्षीत् कणशः पारदादिवत् // 529 // हरिस्तत्स्नेहमालोक्य निःसन्देहं तमुज्जगौ / . . कर्मशृङ्खलसम्बद्धो मोक्तुं न नरकं क्षमः // 530 // गत्वा भरतमध्ये तत्पूजां विस्तारयाऽधुना / ततो हली समागत्य दर्शयामास साम्प्रतम् // 531 // नीलपीताम्बरे मूर्ती विधाय रामकृष्णयोः। - पूजनीये प्रतिगृहं यतः स्युर्बहुलाः श्रियः // 532 // शङ्खचक्रगदाधन्वधारी श्रीपरमेश्वरः / योऽर्चयेदीदृशं देवं स प्राप्ता वैष्णवं पदम् // 533 // प्रीणिता बहुधा लोका बलदेवेन ते तदा / अभूवन् वैष्णवा विष्णोस्ततः प्रभृति सेवकाः // 534 // जरासूनुर्यादवानां नाशं विष्णोश्च तान् पुनः / * पाण्डवान् कथयामास तेभ्यः कौस्तुभमार्पयत् // 535 / /