________________ 254 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीनेमिनाथ उत्तिष्ठोत्तिष्ठ सलिलं पातुं त्रातुं हि बान्धवम् / किमालापयसे नैवं दैवं किं कुपितं हि नः // 507 / / तं प्रसादयितुं भ्रान्त्या स्कन्धे संस्थाप्य पर्यटत् / षण्मास्यन्ते स सिद्धार्थः सुरोऽप्यागात् स्वरागतः // 508 // शैलावतरणाद् भग्नं रथं सन्धातुमुद्यतः / सुरो वार्द्धकिरूपेण संकर्षणस्तमृचिवान् // 509 // किं मूढ गूढविज्ञानाजर्जरं खण्डितं रथम् / संधास्यसि कथं सोऽवग् जीविष्यति मृतो यथा // 510 / / शिलासु पग्रिन्या रोपं दग्धद्रुमनिषेचनम् / __ मृतगव्या मुखे दूर्वा सुरोऽदृष्टान्तयद् भृशम् // 511 // रामो विरामं स्वभ्रातुरातुरो जानुबोधितः / मत्वा तत्त्वात् तनुं काष्र्णी संचस्कार करालदृक् // 512 // सिद्धार्थदेवः प्रकटीभूय सर्व न्यवेदयत् / हरेभृत्युं च जारेयात् तद्गमं पाण्डवान्तिके / 513 / व्रतं गृहाणाऽर्हत्पार्श्वे इत्युक्त्वान्तर्दधे सुरः / प्रैषि श्रीनेमिना विद्याधरपिस्तव्रतेच्छया // 514 // ततो दीक्षामुपादाय तपस्तेपेऽतिदुस्तपम् / __ तुङ्गिकाचलमारुह्य सिद्धार्थः सनिधिं व्यधात् // 515 // अन्यदा मासिकस्यान्ते यियासुनगरान्तरे / कूपदेशस्थया नार्या सुरूपो मुनिरीक्षितः // 516 // मुक्त्वा घटं बालकण्ठे व्यग्रा चिक्षेप दामनीम् / तद् वीक्ष्य न पुरे भिक्षा ग्राह्येति नियमं दधौ // 517 // बोधयित्वा स्त्रियं रामश्चक्राम वनमध्वना / / कोऽयं कुतः समागत्य तपस्तप्यति दुष्करम् // 518 // इत्यज्ञजनवाग्योगाद् योगाद् रामर्षिसनिधौ / - राजा व्याजादुपद्रोतुं स नेमे विनयान्वितः // 519 // सिद्धार्थस्तर्जयन् कश्चिद् दुर्जनं मत्सरार्जनम् / सिंहादीन् सेवकाँश्चक्रे नरसिंहस्ततो भुवि / 520 / रामपिर्लब्धवान् ख्याति तद्देशे देशनारसात् / / व्याघ्राद्याः प्रशमं प्रापुर्योगसिद्धेर्बलं महत् // 521 //