________________ चरितम ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 25.3 हरेस्तृषायां रामेऽपि गते जलनिनीषया / पादं जानूपरि न्यस्य प्रसुप्ते पुरुषोत्तमे // 491 // जारेयस्तत्र मार्जारभीमहक मृगयां सृजन् / आययौ मृगबुद्धया च पादाधः कृष्णमाहत // 492 // उत्थाय कृष्णस्तृष्णातः केनाऽहं निहतः क्रमे / : इति पृष्टो जरासूनुः स्पष्टीभूयाऽब्रवीदिति // 493 // अवनाय तव भ्रातर्धान्तोऽहं मोहतो वनम् / वृथा प्रयासो जज्ञे तद् द्वादशाब्दानि बान्धव // 494 // कुतस्तवागमोऽटव्यामकाण्डकाण्डताण्डवात् / त्वद्वधायाभवं तन्मेऽप्याभवं दुःखसम्भवः // 495 // कृष्णोऽपि भगवद्वाक्यं यथाजातं तथाऽवदत् / त्वं याहीतो न चेद् रामस्त्वदाते प्रभविष्यति // 496 // अभिज्ञानाय मे पाहि कौस्तुभं याहि पाण्डवान् / -- यादवानां बीजमानं साम्प्रतं त्वयि तिष्ठते // 497 // इतोऽपसर पादस्थं शरमादाय दूरतः / विपरीतैः पर्दैगच्छे नुयायी यतो हली // 498 // संस्मरन् सनमस्कारं श्रीनेमिजिनमच्युतः / वदने वस्त्रमाच्छाद्य सुप्तः पुनरचिन्तयत् / 499 / धन्यः श्रीनेमिरन्येऽपि समुद्रविजयादयः / . प्रद्युम्नाद्याः सुताः पूता रुक्मिण्याद्या मृगीदृशः // 500 // अत्रान्तरे पादपीडावशादवशचेतसा / रौद्रध्यानमुदीयाय ध्यातवांस्तेन माधवः // 501 // द्वैपायनः क्व पापिष्ठः पिष्टवान् यः कुलं मम / तं निहत्य विधास्येऽतः खण्डशो दिग्बलिं बलात् // 502 // समाः सहस्रं स्वं चायुः प्रपूर्य शौर्यवान् हरिः / तृतीयां नारकक्षोणी प्राप तत् पापतापतः // 503 // अथारामतरोनींचैः सुप्तं तं दीर्घनिद्रया / रामोऽजागरयद् बन्धो पयः पेयमिति ब्रुवन् / 504 / तमब्रुवाणं निस्त्राणं प्राणहीनं विचारयन् / अतुच्छमूर्छामापनो बलीयानप्यसौ हली 505 / प्रभविष्णुन विष्णुं मेऽनुजं हन्तं सुरोऽप्यमुम् / __ अमुञ्चं द्रुतमेकान्ते स्वान्ते शोचामि चामितम् // 506 //