________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 251 प्रातः पृष्टः प्रभुः प्राह भावतो शाम्बवन्दनाम् / द्रव्यतो पालकस्येति शाम्बायादाद् हयं हरिः // 462 / / उत्पन्नस्य विनाशः स्यादवश्यमिति चिन्तयन् / माधवो जिनमप्राक्षीद् द्वारिकानाशकारणम् // 463 // . प्रभुराख्यत् शौरिपुरे पराशरस्तु तापसः / कैवल् रमणात् तस्य पुत्रो द्वैपायनोऽभवत् / 464 / ततो मद्यनिमित्तेन नाशोऽस्या भविता पुरः / जराकुमारस्ते हंता तौ श्रुत्वा वनमीयतुः // 465 / / सद्यो न्यवारयन् मद्यं जहुस्तदरतोऽचले। कादम्बर्या कन्दरायां सा स्वादुः स्वरसादभूत् // 466 // दीक्षां जिघृक्षं सिद्धार्थ प्राह सीरी यदा तु मे / कष्टे सम्बोधदायी स्या अनुज्ञास्ये तदा व्रतम् // 467 // प्रतिपद्य तदप्येषः सिद्धार्थों व्रतसङ्ग्रहात् / ' षण्मास्यन्ते तपस्तप्त्वा वैमानिकसुरोऽभवत् // 468 // कादम्बर्याः समानीतां स मानी तां पपौ मुदा / / . सुस्वादूदकविभ्रान्त्या शाम्बः सह सुहृद्गणैः // 469 // द्वैपायनप्रकोपाय ते जातास्ताडनादिभिः / लोष्टुभिः पादघातैश्च निदानमिति सोऽप्यधात् // 470 // भूयासं द्वारकां दग्धुं समर्थस्तपसाऽमुना / निशम्य तद्रामकृष्णक्षामितो न त्वशाम्यत // 471 // विष्णुराघोषयत् पुर्या कुर्यात् सर्वजनस्तपः / जिनार्चना सुरचना वचनातिशयस्तवम् / 472 / प्रद्युम्नशाम्बनिषधोल्मुकाद्याः शौरिसूनवः / रुक्मिणीजाम्बवत्याद्याः स्त्रियोऽपि जगृहुव्रतम् // 473 // विष्णुमूचे प्रभुर्गन्ता तृतीये नरके त्वकम् / . उद्धृत्य मर्त्यः स प्रान्ते मृत्वा वैमानिकः सुरः // 474 // .च्युत्वा शतद्वारपुरे जितशत्रोः स्तुतो जिनः / द्वादशोऽममनामा त्वं भावी रामस्तवाऽग्रजः // 475 //