________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् 4 . विष्णुनाऽऽराधितो देवो नैगमेपी तदावदत् / भविष्यति सुतः किन्तु यति व्याप्तयौवनः // 402 // गजनाम्नाङ्गजो मात्रा लालितोऽवाप्तयौवनः / द्रुमस्य राज्ञस्तनयां परिणिन्ये प्रभावतीम् // 403 // सोमद्विजसुतोद्वाहं कृत्वा पत्नीयुगान्वितः / दीक्षां जग्राह वैराग्यात् श्मशाने प्रतिमां दधौ // 404 // श्वसुरः स्वसुतादुःखात् तच्छीर्षेऽङ्गारपूरितम् / भाजनं प्रज्वलन्न्यास्थत् ततोऽवजद् गजः शिवम् // 405 // निर्वाणगमनात् तस्य हरिः पप्रच्छ घातकम् / यस्ते दर्शनतो वेगाभिन्नमूद्धर्ना मरिष्यति // 406 // प्रातः पुरीप्रवेशे च सोमविप्रमृते ह्यमुम् / रज्जु बद्ध्वा यदोः पुर्यामभ्रामयद्धरिः क्रुधा / 407 / तद् विलोक्य व्रतं प्राप्ता दशाहीं नव सूनवः / -- कृष्णस्यान्येऽपि यदवः शिवाम्बा सप्त बान्धवाः // 408 // एकनाशानन्दकन्या धन्या अन्या यदुस्त्रियः / / . वतिन्यो जज्ञिरे कृष्णः कन्योद्वाहं निषिद्धवान् // 409 // सर्वाः पुत्र्यो हरेः पत्न्यो वसुदेवस्य दीक्षिताः / ___स्थिता. गेहे देवकी च रोहिणी मातरौ तथा // 410 // गृहेऽपि भवदुःखानि राज्ञी कनकपत्यथ / संप्राप केवलज्ञानं घातिनां कर्मणां क्षयात् / 411 / त्रिंशदिनानशनतः शिवं कनकवत्यगात् / सागरोऽणुव्रती कायोत्सर्गी दृष्टः श्मशानभाक् // 412 // नभःसेनेन तच्छीर्षे निदधे सानलो घटः / ततः स्मृतनमस्कारः सागरः स्वर्गमागमत् // 413 // शक्रः कृष्णस्तुतिं कुर्वन् न सेहे धुसदा तदा / . मृतः श्वा दर्शितो मार्गे तद्दन्ताँस्तुष्टुवे हरिः // 414 // देवेन विष्णोस्तुरगोऽपजहेऽबिभ्यता बलैः / कृष्णेऽप्यन्तिकमायाते देवस्तमाह साहसात् // 415 //