________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 243 बलाये निगदन् विष्णुस्तद्धलाधिक्यमद्भुतम् / तेनैव स स्थिरीचक्रे प्राग् नमेरर्हतो गिरा // 338 / / द्वाविंशस्तीर्थकुन्नेमिर्भावी विवाहकन्न सः / अभ्यर्थ्यमानोऽप्यस्माभिर्विवाहं नाभिमन्यते // 339 // वसन्ते जललीलायां गतः सान्तःपुरो हरिः / नेमिनं सार्द्धमादाय धारायन्त्रमथाविशत् / 340 / स्नात्वा कृत्वा जलक्रीडां निर्ययौ विष्णुरम्भसः / ___ संज्ञापयन् वधूर्नेमिः स्वीकार्यः स्वकरग्रहम् // 341 / / हासैविलासैः कान्तानां वाकप्रकाशैः सविभ्रमैः / नेमिः प्रतिवचो वक्तुमशक्तेमौनमादधे // 342 // स्वीकारे, परिहारे, च पक्षे तदुभयस्पृशि / राज्ये मेघकुमारस्य प्रथमं मौनधारणम् // 343 // द्वितीयं तु विहारस्य जमालेवीरमौनवत् / तृतीयं तु देवनृत्याद्यारम्भे पुरतोऽर्हतः // 344 // मानितः स्वामिना पाणिग्रह इत्यूचुरङ्गनाः / ततः कृष्णोऽप्युग्रसेनं राजीमतीमयाचत / 345 / तेनाऽपि स्वीकृते लग्नदिनेऽलङ्कारभासुरः / नेमिरारुह्य मत्तेभं ययौ विवाहमण्डपम् / 346 / मागधैर्गीयमानोऽयं वीज्यमानश्च चामरैः / धृतातपत्रश्चित्राणि दर्यमानश्च तत्करैः // 347 // अन्वीयमानः सोत्सेकैः समुद्रविजयादिभिः।। अचितो रामकृष्णाभ्यां वीक्ष्यमाणो वधूजनैः // 348 // त्रिभिर्विशेषकं उग्रसेननृपगृहमासनं वीक्ष्य तद्विधौ / न्युञ्छनादौ रथारूढः शुश्राव करुणस्वरम् // 349 // गत्वा तत्र जिनोऽप्राक्षीत् साक्षी सकलरक्षणे / किमर्थमेते विधृता जीवा जीवातुवर्जिताः // 350 // त्वद्विवाहेऽदनायेति श्रुत्वाऽमोचयदाशु तान् / . स्वयं निवृत्त्याजगाम स्वाश्रयं स दयाशयः // 351 // पित्रा मात्रा सगोत्राद्यैर्वार्यमाणो विभुर्ययौ / पस्पन्दे दक्षिणं चक्षू राजीमत्यास्तदा शुचा // 352 // सख्योराख्यत् किमेतस्मिन् क्षणे मेऽयं विपर्ययः / / तावाहतुर्मङ्गलं ते भूयात् शान्तममङ्गलम् // 353 //