________________ 242 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीनेमिनाथ प्रत्यावृत्त्य द्वारिकायामर्द्धचक्री महानृपैः / कृष्णोऽभिषिक्तो रामश्च बलदेवपदे तदा / 323 / पाण्डवान कुरुदेशस्य राज्ये विष्णुय॑वीविशत् / बलदेवादयः पञ्च वीराः प्रसिद्धिमाप्नुवन् // 324 / / दशाही दश दोष्मन्त उग्रसेनादयो नृपाः / सहस्राः षोडश ख्याताः कुमाराणां त्रिकोटयः // 325 // षष्टिसहस्राः शाम्बाद्याः वीरसेनादयो भटाः / एकविंशतिरत्युग्राः सहस्रा लक्षयोधिनः / 326 / कन्ये द्वे द्वे च भूपानां परिणिन्ये जनार्दनः / रामस्याष्टौ सहस्राणि बभूवुर्मगलोचनाः / 327 / रामकृष्णौ तत्कुमारा रमन्ते वनितागणैः / कथं त्वं वत्स वीवाहं सोत्साहं नाऽनुमन्यसे // 328 // माता-पितृभ्यामित्युक्तः प्रत्युवाच ममोचिताम् / द्रक्ष्ये कन्यां तदा वक्ष्ये तेन वाचोऽप्यमोचि ताः // 329 // च्युत्वाऽपराजिताजीवो यशोमत्या महीपतेः / उग्रसेनस्य धारिण्याः पत्न्याः कुक्षाववातरत् // 330 // राजीमती सुता नाम्ना ववृधे स्त्रीगुणैः समम् / __ क्रीडन् कुमारैः श्रीनेमिः प्राप कृष्णाऽऽयुधालयम् // 331 // दध्मौ शङ्ख पाश्चजन्यमजंजन्यत तध्वनेः / अनेकशोऽजन्यवार्ताः मेदिनीक्रन्दनादिना // 332 // बाधीय श्रवसो लोके शोकेऽस्तोकेतरे नरे। अश्वीये भयसम्भ्रान्तेर्दाम्नां त्रोटनमप्यभूत् // 333 // गर्जा गारवैस्तर्जा विवर्जा वारिमोचनात्' / शोचनायाऽभवन् हस्त्यारोहाणामपि दुर्दमाः // 334 // शूराः क्रूरा युधेऽभूवन पेतुः शृङ्गाणि शैलतः / सिन्धोर्वेलां विना वेलाजलैराप्लाविता मही // 335 / / हरिस्तत्रैत्य स त्रस्यन् नेमिनं प्राह साहसी / मिथो बलपरीक्षां तत् कुर्वहे धुर्यधैर्यतः // 336 // प्रससार भुजां विष्णुस्तां नेमिर्दागनामयत् / नेमेर्भुजा शैलमयस्तम्भरूपा हरेरभात् // 337 // 1. गजबन्धभूः /