________________ चरितम् ] लघुत्रिष्टिशलाकापुरुषचरितम् [ 241 अभ्रामयद् रथं तस्माद् रक्षणायैव मातलिः / भगवानपि भूपानां धनुष्कत्वादि चाच्छिनत् // 307 // निरोधे परसैन्यस्य पार्श्वे प्राप्ते हि भूभुजः / तत्क्षणात् सकले सज्जे पाटवं यादवा ययुः // 308 // पाण्डुपुत्रैर्धार्तराष्ट्रा अवशिष्टाः प्रशामिताः / मुसली पुनरुत्थाय जघान नैकशो नृपान् / 309 / युद्धथमानो जरासन्धः शराशर्यस्य सिस्फुटम् / वितन्वानः स्वतन्वाऽपि कृष्णेन व्यायुधीकृतः // 310 // मन्त्राणामिव विद्यानां तन्त्राणां विफलत्वतः / चक्रं मुमोच स रुषा परुषाक्षरगीर्जरन् / 311 // सुहृद्वत्तदुरस्ताडं तुम्बेन विदधत् ततः / हरेः करे स्वरेखाङ्कचक्रमैत्र्यादिव स्थितम् // 312 // प्रतिमुक्तं तु तच्चक्रं गलनालं मृणालवत् / चिच्छेदाऽस्य प्रतिविष्णोस्तुर्यभूगामिनस्ततः / 313 / पुष्पवृष्टिं व्यधुर्देवाः कृष्णस्योपरि हर्षतः। नवमोऽनवमो विष्णुर्जात इत्यूचिरे चिरम् // 314 // अथारोधानेमिनाथोऽमुश्चत् कृष्णारिपार्थिवान् / . . नत्वाऽर्हन्तं हरेः सर्वे बभूवुः सेवका भुवि // 315 // दत्त्वा मगधतुर्या शं सहदेवं पितुः पदे / स्थापयित्वाचलज्जेतुं त्रिखण्डं भरतार्द्धजम् / 316 / महानेमि सूर्यपुरे हिरण्यनाभसम्भवम् / कौशलायां रुक्मनाभं धरं च मधुरापुरे // 317 // वसुदेवोऽप्यगात् सैन्ये प्रद्युम्नशाम्बसंयुतः / खेचरान् स्ववशीकृत्य जितकाशी जनस्तुतः / / 318 // जयसेनप्रमुखाणां प्रेतकार्य व्यधाद्धरिः / सहदेवो जरासन्धं जलाञ्जलीरदाप्यत // 319 // आनन्दपुरमित्याख्यां शनिपल्लेर्हरिर्दधौ / उद्दधार कोटिशिलां' महती सव्यपाणिना / 320 / तां भुजाग्रे दधौ विष्णुरायो मूनि द्वितीयकः / कण्ठे तृतीयस्तुर्यस्तूरःस्थले पञ्चमो हृदि // 321 // षष्ठः कट्यां षडधिकस्तूर्वोराजानु चाष्टमः / चतुरगुलमन्त्योऽवसर्पिण्यां निपतद् बलात् // 322 // . 1. कोटिशिलाप्रदेशपरिचयकृते परिशिष्टं दृश्यताम् / ल. त्रि. 31