________________ 240 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [श्रीनेमिनाथ तद्रक्षकाः कृष्णपुत्रा भानुशत्रुजयादयः / भ्रातरक्षाविधौ नेमेः शक्रो मुमोच सारथिम् / 291 / प्रतिविष्णुबलं बाणवृष्टयाऽभाङ्क्षीद् हरेबलम् / दृष्ट्वाऽनादृष्टिरग्रस्थो महानेमिश्च पार्श्वतः // 292 // वामभागादर्जुनोऽपि त्रयो जयविधित्सया / अधावन्त शरासारैः कुर्वन्तो घनदुर्दिनम् // 293 // नष्टेषु पृष्ठभूपेषु चक्रुयूहस्थिति त्रयः / सद्यस्त्रिपथगां चक्रुः पुनानां शूरसश्चयान् / 294 / त्रयो रुरुधिरे ताँस्त्रीन पार्थ दुर्योधनोऽरुणत / रौधिरिस्तमनादृष्टिं महानेमिं च रुक्मिराट् // 295 // रुक्मी निरस्त्रो विरथः कृतः सामुद्रिणा रणे / तद्रक्षायै सप्त भूपाः प्राप्ताः शत्रुन्तपादयः // 296 // शैवेयस्तद्धनुश्छेदं कुर्वन् शत्रुन्तपेक्षितः / शक्तिं चिक्षेप तद्भित्त्यै शत्रुन्तपनृपोऽकृपः / 297 / वज्रेणाऽपातयच्छक्तिं मातलिनेमिनोदितः / बलीन्द्रदत्तां यदवो यदवोचन जयध्वनिम् // 298 // एवं रणे जायमाने शल्यं युधिष्ठिरोऽवधीत् / कर्ण पार्थों मरुत्सनुर्योधननृपं तदा // 299 // : हिरण्यनाभं सेनान्यमनादृष्टिर्महासिना। __द्विधा चकार तत्राऽगाज जरासन्धः स्वयं रणे // 300 // यवने सारणेनाऽऽशु निहते तनये क्रुधा / मागधो शरणारम्भः स्तम्भमाधाद्धरेबलम् / 301 // रामपुत्रा दश तदा निहताः प्रतिविष्णुना / विष्णुना शिशुपालोऽपि तदाऽलोपि शितासिना // 302 // रामोऽष्टाविंशति पुत्राञ् जघान मगधेशितुः / तद्रुषा मागधो रामं पिपेष गदयाऽदयः // 303 // एकोनसप्ततिसुतान् संजहार हरिः क्रुधा / दधावे प्रतिविष्णुस्तद्विष्णोरेव जिघांसया // 304 // अत्रान्तरेऽरिष्टनेमिविज्ञप्तेर्मातलेरथ / रथमारुह्य निष्कोपो दध्मौ शङ्ख सुरेशितुः / 305 / ब्रह्माण्डमाण्डविस्फोटस्तद्ध्वनाद् भुव्यशझ्यत / जरासन्धो जरालीढं शरैः सैन्यं चकार सः // 306 //