________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 239 पत्तिभिः पत्तयो लग्नाः सादिभिः सह सादिनः / ___ महामात्रैर्महामात्रा योधा युयुधिरेतराम् // 276 // जरासन्धः स्वीयसन्धाप्रबन्धाय निजे बले / चक्रव्यूह विरचयाश्चक्रे चक्रेशशासनः // 277 // वक्रं चक्रं सहस्रारं प्रत्यरं शतदन्तिनः / द्विसहस्री स्यन्दनानां सहस्रा पश्च वाजिनाम् // 278 // पदातीनां सहस्राणि षोडशैवं स्थिता अराः / सपादषट्सहस्राणि राज्ञां परिधिरक्षिणाम् // 279 // सहस्रैः पञ्चभी राज्ञां जरासन्धोऽस्य मध्यगः / पृष्ठेऽस्य सेना गान्धारी सैन्धवी मगधेशितुः // 280 // धार्तराष्ट्राः शतं राज्ञो दक्षिणा दक्षिणा रणे / मध्यदेशे गणनृपाः सर्वे कृपाणपाणयः / 281 / चक्रसन्धौ च पश्चाशच्छकटान्यायुधैर्युधे / एवं चक्रव्यूहसिद्धौ तस्य पश्यत्त्सु शत्रुषु / 282 / चरैत्विा तां व्यवस्थां गरुडव्यूहमादधुः / अनादृष्टिमुखा आस्ये लक्षाः पश्चाशदाश्रिताः // 283 // रामकृष्णौ व्यूहमूर्ध्नि रथलक्षं च पृष्ठगम् / .: शौर्यपुर्या मथुरायास्तत्पृष्ठस्थे बले उभे // 284 // दुर्दान्ताः सूनवोऽक्रूरादयोऽजानकदुन्दुभेः। ____ तत्पृष्ठेऽपि पञ्चलक्षा रथानामाहिकः' स्थितः // 285 // तस्याऽपि पृष्ठरक्षायै दक्षास्तस्थुः सहात्मजाः। सारणो दुर्धरश्चन्द्रः सात्यकी रथलक्षयुक् // 286 // समुद्रविजयो विष्णोर्दक्षिणं पक्षमाश्रयत् / रथानां पञ्चविंशत्या लक्षैरन्यैर्नृपैरपि // 287 / / वामपक्षं रामपुत्राः युधिष्ठिरादिपाण्डवाः / शिश्रियुः पञ्चविंशत्या रथलक्षैः सुरक्षिताः // 288 / / पाण्डवांस्तांडवविधौ निशिताऽसिकरैर्युधि / दक्षा लक्ष्या तेषु मुक्तौ तत्पृष्ठे सिंहलादयः / 289 / द्रविडो भूपतिस्तेषां रक्षायै पृष्ठतः स्थितः / पष्टथा रथसहस्राणां महासेनोऽस्य पृष्ठतः // // 290 // 1 आहिकः उग्रसेनः /