________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् / 237 महिष्योऽष्टौ हरेरासन सत्यभामा, च रुक्मिणी, / गौरी, जाम्बवती, पद्मा, सुसीमा, लक्ष्मणा, ततः // 247 // गान्धारी, चेति काप्यासां पित्रा दत्ता हताऽपरा / __बलभद्रप्रिया नाम्ना रेवती रेवताऽनुजा // 248 // रामा, सीता, बन्धुमती,प्रमुखा बहवोऽभवन् / रामाङ्गजा उल्मुकाद्याः प्रद्युम्नाद्या हरेरपि // 249 // साम्राज्यमेवं भुञ्जानौ रामकृष्णौ च यादवाः / परं ववृधिरे पुत्रैर्धनैर्धान्यैश्च वाहनैः // 25 // कियत्यपि गते काले प्राप्ताः केऽपि वणिग्जनाः / . विमुच्य द्वारिकामीयू राजगृहपुरान्तरे // 251 // रत्नकम्बलमूल्येऽर्द्ध जायमानेऽत्र ते जगुः / विमुक्ता द्वारिका ताहग्नगर्यस्माभिरुत्सुकैः // 252 // लाभाधिक्याऽथिभिः प्राप्तं जरासन्धपुरं महत् / मूल्याई लभ्यतेऽत्राऽपि भ्रमोऽयं विभ्रमाद् वृथा // 253 // ते पृष्टा जीवयशसा मत्पितुः स्थानतोऽधिका / का द्वारिका नृपः कोऽस्यां तेऽप्यूचुः कृष्णभूपतिम् // 254 // 'पुत्र्या वाचा जरासन्धः स्कन्धमास्फालयनयम् / शकुनैार्यमाणोऽपि चचाल द्वारिका प्रति // 255 // सहदेवादयः पुत्राः 'तनुत्राणादथायसात् / द्विधा सपक्षतां प्राप्ताः प्रचेलुस्ता_वाहनाः।२५६। चेदिराजः शिशुपालः कालो व्यालोऽथ वारिषुः / हिरण्यनाभोऽरिष्टपुराधिपः साधितशात्रवः // 257 // दुर्योधनाद्याः कौरव्या भूपा रूपाद् यमोपमाः / वन्या धन्यास्तदन्येऽपि खेचराः प्रबला बलैः // 258 // प्रतिविष्णोः प्रयाणेऽस्मिन् सङ्गताः के न सङ्गतात् / . आजन्मवद्धितास्तेन स्पद्धिता पायसं प्रति // 259 // 1 तनुत्राणात् कवचात् / 2 सङ्गतात् मैत्र्यतः / 3. तादों रथोऽश्वो वा /