________________ 236 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीनेमिनाथ तृतीयरात्रौ देवोऽयं पाश्चजन्यं पुरो ददौ / कृष्णाय हलिने शङ्ख सुघोषं तोषतः स्वतः // 234 // कृष्णः प्रसाद्य तं देवं प्रार्थयत् पूर्वशाङ्गिणाम् / दतं स्थानं निवासाय तन्मह्यमनुगृह्यताम् // 235 // इन्द्राज्ञया पुरीं दिव्यां निर्माय शौरये ददौ / द्वारिकां विस्तृतां हैमी नवभिर्योजनैर्जनैः // 236 // दीर्घा द्वादशयोजन्या जन्याऽजनितरोचिषम् / अनजन्यास्तत्र तस्थुर्यादवाः सुखशालिनः // 237 // धनदो नगरी कृत्वा रत्नैराभरणैरलम् / अपूरयद् देवदूष्यैरदूष्यैर्वर्णवर्णनौ // 238 // अकलङ्ककलं ध्वस्तसमस्तद्विइबलं बलम् / आपृच्छयाऽनुजमेतस्य कृष्णं राज्ये महाभुजम् // 239 // समुद्रविजयः क्षमापः स्थापयामास सन्महैः / नव्यचैत्यजिनस्नात्रजलैरविरलैरलम् // 240 // युग्म अरिष्टनेमिभगवान् कल्पद्रुरिव जङ्गमः / क्रमात् तारुण्यमारुण्यं प्रपेदे विश्वमोहनम् / 241 / दशचापोन्नततनुराजन्माङ्गजजित्वरः / न मन्यते स्म विवाहं 'शिवांकनन्दितेऽहितम् // 242 // भामानादरतः कोपान् नारदः कुण्डिनेशितुः / भीमाद् यशोमतीजातां रुक्मिणी कृष्णरागिणीम् // 243 // विधाय लग्नदिवसे देवर्षिः कृष्णमानयत् / पितृष्वसुप्रयोगेण लात्वाऽगाद् रुक्मिणी हरिः // 244 // युग्मं पृष्ठे धावद् रुक्मिराजं रामस्तच्छीर्षमुण्डनात / त्रपितं ग्लपितं भग्नं मुक्त्वाऽगाद्वारिकां पुरीम् // 245 // तत्राऽपि श्रीगृहे लक्ष्मीरूपां तां रुक्मिणी स्थिताम् / भामागता दिदृक्षायै ननाम कैतवाद्धरेः // 246 // 1. शिवायाः देव्याः शिवस्य मोक्षस्य वा अंके नन्दितो वृद्धः तत्र अहितः अनुचितस्तम् /