________________ 234 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीनेमिनाथ दिदृक्ष तौ मल्लयुद्धं स्नानाय यमुनां गतौ / कालियाहिर्वशीचक्रे कृष्णेनाऽऽरोहणात् स्वयम् // 204 // स्नात्वा विशन्तौ मधुरां कंसादिष्टं द्विपद्वयम् / महामात्रप्रेरितं तद्वधाय समधावत // 205 / / हतः कृष्णेन मातङ्गः पद्मोत्तरः क्रमाहतेः / चम्पको रामपद्घातात् कम्पभृत् मृत्युमाप च // 206 // मल्लाक्षपाटमागत्य क्वाऽपि मञ्चे निषीदतुः / शत्रु कंसं स्ववर्ग च कृष्णायाज्ञापयद्धली // 207 // मल्लाहूतौ रामकृष्णौ युद्धायोपस्थितौ तदा / कृष्णेन लग्नश्चाणूरः सात्वतेन च मुष्टिकः // 208 // ज्ञात्वा रिपू दृशा कंसश्चाणूरं तद्भिदेऽदिशत् / तद्वन्मुष्टिकसंज्ञानं कृष्णचाणूरमाहत // 209 // जघान मुष्टिकं रामः क्रुधा हत हतेति सः / वदन कंसश्चपेटांहिषातैः कृष्णेन चावधि / 210 / कंसगृह्या जरासन्धपाक्षिकाः सुभटा अपि / रामकृष्णवधे सज्जा निषिद्धा यादवैः परैः // 211 // अस्मद्वंश्योऽयमस्माभिरेव मृत्युमवापितः / निघ्नन् कृष्णस्य षड्भ्रातृन् नाऽत्राऽन्यस्य प्रयोजनम् // 212 // .. मोचितेनोग्रसेनेन सत्यभामा विवाहिता | कृष्णेन सह कंसाय सर्वैर्दत्तो जलाञ्जलिः / 213 / रुदती मुदती' साऽथ गता जीवयशा रुषा / जरासन्धं स्वपितरं तद्वृत्तान्तमवीवदत् / 214 / प्रतिविष्णुस्तदा प्रेषीत् सोमकं नाम पार्थिवम् / सोऽप्यागत्य जगावेवं स्वस्थास्तिष्ठन्तु यादवाः // 215 // कृतापराधौ सम्प्रेष्यौ रामकृष्णौ मदोद्धतौ / समुद्रविजयोऽप्यूचे कोऽपराधस्त्विहाऽनयोः // 216 // कथं न वारितः पूर्व जामाता प्रतिविष्णुना / पइगर्भान् मारयन् नास्मत् कुलेऽस्ति शिशुमारकः // 217 // कृष्णोऽपि कोपमुद्दीप्य प्राह तं दूतनूतन / __ याहि पाहि स्वराज्यं तद् ब्रूयाः स्वस्वामिने त्विति // 218 // 1 मुदती हर्षरहिता /