________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् जाने यथाऽहं हन्तारं तारं तत् कथयाऽधुना / स प्रोचे शार्ङ्गधन्वाऽस्ति यस्तदा रोपयिष्यति // 190 // कालेयाहेर्दमनकृत् चाणूरमल्लघातकः / ___ पद्मोत्तरं चम्पकं वा यो हनिष्यति सोऽन्तकः // 191 // परिणेष्यति मे जामि सत्यभामां स भाग्यभूः / यः शार्ङ्गधन्वं चाधिज्यं विधास्यति महाभुजः // 192 // अनेके भूभुजोऽभ्येयुनिशम्योद्घोषणामिमाम् / अनादृष्टिस्तत्र यातुं गोकुले निशि तस्थिवान् // 193 // प्रातश्चलन रथे राममारोप्य पत्तिकृष्णयुक् / रथे वटजटाबद्धेऽनादृष्टिर्मोचनेऽनलम्' / 194 / कृष्णेनोन्मूलिते मूलाद् ऋजुरध्वा बभूव सः / कृष्णस्य तबलं दृष्ट्वाऽनादृष्टिर्मुमुदेतराम् // 195 // अनादृष्टिर्धनुर्द्रष्टुमक्षमोऽप्युद्धरन् मदात् / पतितो भुवि लोकानां हासहेतुर्बभूव सः / 196 / स्वस्वामिपुत्रहासस्याऽसासहिः स हि नन्दसूः / लीलया रोपयामास सत्यभामानिरीक्षितः // 197 // सङ्कीर्णत्वाज्जननेंक्षि तदाऽनादृष्टिरब्रवीत् / मयैवारोपितं धन्वं वसुदेवस्तदा जगौ // 198 // त्वां हनिष्यति कंसोऽयं धन्वारोपणजात् पणात् / / शौर्यात् शौर्यपुरं याहि सोऽप्यगात् सवितुगिरा // 199 // पुनः परीक्षितुं मल्लयुद्धेन रिपुमात्मनः / कंसेन मल्ला आहूताः स्वीया देशान्तरात् परे / 200 / अत्रान्तरे स्नातुमेषा यशोदा प्रार्थिता जलम् / न कार्यव्यग्रया नीतं रामेणोक्ता रुषा च सा // 201 // रे दासि ! विस्मृता दास्यं यदा नयसि नो जलम् / कृष्णस्य वैमनस्यं द्रागजायत श्रुतेरतः // 202 / / रामेण पृष्टस्तद्धेतुं सोऽप्याचष्ट भवद्वचः / रामेणाऽभाणि सर्वोऽपि वृत्तान्तोऽस्मै यथाऽजनि // 203 // 1. अनलम् असमर्थः / ल. त्रि 30