________________ 228 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् { श्रीनेमिनाथ बृहद्ध्वजा वसोः पुत्राद् गतेषु बहुराजसु / ___ यदुनृपो मृदुलोंके यदुत्साहाद् धुलोकभीः // 115 // ज्येष्ठः सूरः सुवीरोऽन्योऽनुजः पुत्रौ तु यादवौ / शौरिय॑धात् शौरिपुरं सुवीरो मधुरास्थितः // 116 // शौरेरन्धकवृष्ण्याद्यास्तनया नयशालिनः / भोजवृष्णिप्रभृतयः सुवीरधीरसम्भवाः // 117 // शौरिीक्षापक्षलग्नः सुप्रतिष्ठस्य निश्रया / ___ ययौ शिवं सुवीरस्तु सिन्धुदेशमसाधयत् // 118 // अन्धवृष्णेर्दशाऽभूवन् पुत्राः शत्रुभयंकराः / समुद्रविजयस्तेषु मुख्योऽक्षोभः परस्ततः // 119 // स्तिमितः सागरस्तस्माद् हिमवानचलस्ततः / धरणः पूरणश्वाभिचन्द्रोऽस्माद् वसुदेववाक् // 120 // अभूतामनुजे तेषां कुन्ती मद्री तदादिमा / वत्रे पाण्डुनृपं मद्री दमघोषमशिश्रियत् // 121 // हरिवर्षानीतयुग्मिर्जातोऽभूद्धरिवंशकः / प्रशस्या भुवि तद्वंश्या यादवा यदुभूपजाः / 122 / इतश्च हास्तिनपुरे ललितः श्रेष्ठिनन्दनः / मातुः स वल्लभोऽत्यन्तं साम्बा गर्भवती पुनः // 123 // गर्भानुभावतस्तापमवाप श्रेष्ठिनी भृशम् / चकमे गर्भपातं च न स गर्भोऽपतत् पुनः // 124 // स पुत्रो जातमात्रोऽपि त्याजितश्चेटिकाकरात / दृष्टः पित्रा स चाऽरक्षि छन्नं संवद्धितः परैः // 125 // गङ्गदत्त इति ख्यातः पितरं ललितोऽब्रवीत् / मधूत्सवे समायाते तातानुजमिहानय // 126 // न जानाति जनन्यस्य न्यस्तस्तथा रहः क्वचित् / पटान्तरे तातपुत्रौ गङ्गदत्तं च बभ्रतुः // 127 // दृष्ट्वा तद्भोजनं माता कुट्टयित्वाचकर्ष तम् / भिक्षार्थमागतान साधून्नप्राष्टां द्वेषकारणम् // 128 // साधुर्ज्ञानी जगावेको बान्धवौ काष्ठवाहको / गन्त्री भृत्वा काष्ठभारैर्जग्मतुः पथि सत्वरम् // 129 //