________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 227 चम्पायां श्रीवासुपूज्ययात्रां पूजां स सोत्सवम् / विदधे तत्पुराभ्यस्तजैनतीर्थनतीः सृजन् // 101 // स्थिस्वा दिनानि कतिचिच्चम्पायां श्वसुराग्रहात् / श्रीहास्तिनपुरेऽप्यागात् रागाद् दृष्ट्वा स राजभूः // 102 // आरणच्यवनं प्राप्य सुरसोमावपि क्रमात् / सरो यशोधरोऽस्यासीत् सोमो गुणधरोऽनुजः // 103 // शङ्खे राज्यमनुज्ञाय श्रीषेणो व्रतमाददे / ____ उत्पन्नकेवलोऽप्यागात् स श्रीषेणमहामुनिः // 104 // शङ्खोऽभिवन्ध तत्पादौ देशनामशृणोत सुधीः / अप्राक्षीद् भूपतिः प्रेम यशोमत्यां कुतोऽधिकम् // 105 // आख्यत् प्राग्भवसम्बन्धं केवली स्वेऽवलीढिमा / भूपरूपं भवस्येदृक् धनादारभ्य सम्भवत् // 106 // मृत्वाऽपराजिते नाम्नाऽनुत्तरेऽनुत्तरस्त्विषा / सुरो भूत्वा परभवे द्वाविंशोऽर्हन् भविष्यसि / / 107 // इयं राजीमती रागाद् भाविनी तामतीत्य च / दीक्षा ग्रहीष्यसि कनी त्वामनु प्रत्रजिष्यति // 108 // अन्ते प्राप्स्यति निर्वाणं बान्धवोऽयं यशोधरः / तथा गुणधरश्चैतौ तवैव गणधारिणौ // 109 // पुण्डरीकं स्वं तनयं राज्येऽभिषिच्य सोत्सवम् / शङ्खः श्रामण्यमाधत्त यशोमत्या समं गुरोः // 110 // बान्धवौ तौ समन्त्री च प्रव्रज्य शङ्खसार्थगौ / - चक्रिरेऽमी तपो गाढं बाढं धर्मेऽनुरागिणः // 111 // शखेन तीर्थकृत कर्माऽप्यर्जितं जिनभक्तितः / / तर्जितं दुरितं सर्व गर्जितं शासनं ततः // 112 // पादपोपगमादन्ते शङ्खोऽयादपराजितम् / यशोमत्यादयोऽपीयुस्तत्रैव विशदाशयाः / 113 / इतश्च जाम्बवे क्षेत्रे भरते विरते भयात् / मधुरास्ति पुरी जीर्णा न्यायेन तरुणी श्रिया / 114 /