________________ 226 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीनेमिनाथ श्रुत्वा कुमारागमनं पल्लीशो गह्वरेऽविशत् / रहः स्थित्वा कुमारोऽपि प्राहिणोत् सैन्यमग्रतः // 86 // बले दुर्गान्तरं प्राप्ते पल्लीशस्तदवेष्टयत् / कुमारः पृष्टतो धावन मध्ये तं बलयोरधात् // 87 // दासीभूय स पल्लीशो लोप्नं दत्त्वा यथाग्रहम् / दण्डं स्वीकार्य नृपसः प्रत्यावृत्त्य स्थितो वने // 88 // रोदनश्रवणाद् रात्रौ तत्र गत्वा स राजसः / ___पप्रच्छाऽर्द्धजरनारी काऽसि किं दुःखकारणम् ? // 89 // सा प्राह भूपश्चम्पाया जितारिरङ्गदेशपः / / कीर्तिमत्यां तस्य सुता सुयशा हि यशोमती // 9 // श्रीषेणनृपभूः शङ्खस्तद्रूपे क्षणतो मुदा / निश्चिकाय तमेवेशं सेवे देवेऽपि निःस्पृहा // 91 // स्पृहयालुः पुनस्तस्यै मणिशेखरखेचरः। तामहार्षीन मन्त्रदेव्या तां लग्नां धात्रिकामपि // 92 // निशम्य वार्ता शङ्खोऽपि वनान्तस्तं विलोकयन् / __गतायां निशिं तं खेडं गह्वरान्तरवैक्षत // 93 // यशोमती प्रार्थयन् स तया तिरस्कृतोऽप्ययम् / __कुमारं वीक्ष्य युद्धाय सन्नद्धोऽयुध्यताऽमुना // 94 // कुमारवाणघातेन पातितो भुवि खेचरः / तमूचे निर्जितोऽस्मीति ममागः क्षम्यतामदः / 95 / तदभ्यर्थनया शखो वैताढ्यनगमीयिवान् / सिद्धायतनयात्राऽपि यशोमत्या समं कृता // 96 // . कुमारं कनकपुरे निनाय मणिशेखरः ! दित्सवः स्वसुतास्तस्मै जगुविद्याधरा अपि // 97 // तान् प्रत्यूचे विवाह्येनां यशोमतीमनुक्रमात् / अन्याः कन्याः परिणेष्ये ततस्तं खेचरेश्वराः / / 98 // मणिशेखरमुख्यास्ते हर्षात् स्वस्वसुतायुताः। __निन्युः कुमारं चम्पायां जितारिरपि सोऽभ्यगात् // 99 // सोत्सवं विहिते पित्रा यशोमत्याः करग्रहे / कुमारोऽन्या खेटकन्याः उपायँस्त प्रशस्तधीः // 10 //