________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 225 व्यामोहानोत्तरं दातुं पर्याप्ताः सर्वभूभुजः / तदाऽपराजितोऽभ्येत्य तत्पक्षोत्तरमादधे // 7 // प्राक सम्बन्धादतिप्रीतामुपयेमेऽपराजितः / युयुत्सून् भूपतीन् जित्वा चक्रे नामाऽपि सान्वयम् // 72 // मन्त्रिपुत्री मन्त्रिपुत्रः कुमारः पर्यणाययत् / पितुरत्याग्रहाद् दूतभणितात् स्वपुरं ययौ // 73 // हरिणंदी परानन्दी राज्ये न्यस्याऽपराजितम् / / प्रव्रज्य तपसां शौर्यात् क्षिप्त्वा कर्म ययौ शिवम् // 74 // नव्यचैत्यादिसत्कृत्यै रथयात्रामहोत्सवैः / भवं च विभवं स्वीयं पुनाति स्माऽपराजितः // 75 / / उद्यानेऽन्येधुरायातं महद्धर्या सार्थपाङ्गजम् / रममाणं रमणीभिः पश्यन् राजाऽप्यमूमुदत् // 76 // द्वितीयदिवसे तस्य मृत्योः शोकाऽवलोकनात् / राजा व्याजाद् विनिर्मुक्तो मुक्तिमैच्छदतुच्छधीः // 77 // प्रीतिमत्याः सुतं पद्म राज्ये नियोज्य स व्रतम् / प्रादात् पूर्व कुण्डपुरे दृष्टकेवलिनोऽन्तिके // 78 // प्रिया प्रीतिमती सूरः सोमश्वानुजबान्धवौ / मन्त्री विमलबोधश्च तमनु प्राव्रजस्तदा // 79 // तपोविधानतः सर्वे ययुरेकादशी दिवम् / ' च्युत्वाऽत्र भरतेऽभूवन ते हास्तिनपुरे नराः // 80 / / राजाऽस्ति तत्र श्रीषेणः श्रीमती महिषी पुनः / पूर्णेन्दुदर्शनात् स्वप्नेऽवतताराऽपराजितः // 81 // अन्तर्वत्न्यास्ततः पत्न्याः कुर्वन् दोहदपूरणम् / जातस्य समये सूनोः शङ्ख्त्याख्यां दधौ नृपः // 82 / / कलाभ्यासविधावस्य नाऽभ्यासं विजहौ सुहृत् / / - प्राग् मन्त्रिजीवो नाम्नाऽत्र भवे मतिप्रभाह्वयः // 83 // पल्लयां विशालशृङ्गाद्रिवल्लयामथ जिगीषया / श्रीषेणगमने शङ्खकुमारस्तं व्यजिज्ञपत् // 84 // मामादिश विशामीशविजयेऽस्यामहीयसाम् / . पराक्रमो नोचितस्तद् राज्ञादिष्टोऽचलत् स्वयम् // 85 // ल. त्रि. 29