________________ 212 ] . महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्मरामस्तमूचे पुरुष कुरुषे गुरुखेदतः / किमेतच्चेतसा किं नो बुध्यसे वस्त्वसम्भवम् / 1198 / जटायुरूचे त्वमपि मृतं स्कन्धे वहन् कथम् / __न वेत्सि मूढवत् सोऽसि भ्रान्तः श्रान्तोऽस्य कार्यतः // 1199 // कृतान्तवदनो देवः स्त्रीशबं स्कन्धयोर्वहन् / रामेण हसितस्तं च प्रत्याह हसितोऽसि किम् / / 1200 // असन्देहं स्नेहमूढ देहं भ्रातुर्मृतं दधत् / ___ अज्ञोऽसि तद्वदज्ञोऽहमपि वोढा मृतां स्त्रियम् / / 1201 // एवं सम्बोध्य रामं तौ देवौ स्वर्ययतुस्ततः / रामश्चकार संस्कारं सौमित्रर्वपुषो रुदन् // 1202 // राज्यमानन्ददेवाय दत्त्वा लावणये स्वयम् / शत्रुघ्नेन समं दीक्षा ग्रहीतुं वनमाययौ / 1203 / मुनिसुव्रततीर्थेशः सुव्रतं पट्टनायकम् / अर्हद्दासश्रावकेणादिष्टं रामो ननाम तम् // 1204 // बिभीषणश्च सुग्रीवो विराधोऽन्येऽपि भूभुजः / निष्क्रान्तास्ते षोडशाऽपि सहस्रा रामनिष्क्रमे // 1205 // सप्तत्रिंशत् सहस्राणि स्त्रीणामाददिरे व्रतम् / श्रीमत्याः परिवारेऽस्थुस्तानि शस्तानि शीलतः // 1206 // . तपांसि तप्यतो रामस्योत्पेदेऽवधिबोधनम् / ___ लोकमानस्य सकलं लोकं करतलस्थितम् // 1207 // विवेद मेऽनुजन्मायं कौमारे शरदां शतम् / त्रिशती मण्डलित्वे च दिग्जयेऽपि चतुःशतीम् // 1208 // एकादशसहस्रांश्च वर्षाणां राज्यशासने / ___ सार्द्धाऽब्दषष्टिसंयुक्तान् व्यतीयाय हरेर्भवे // त्रिभिर्विशेषकम् // 1209 // द्वादशाब्दसहस्रायुः प्रपूर्य नरकं ययौ / तत् प्राप्य मानुषं जन्म सार्थकं करवै व्रतैः / 1210 / एकदा षष्ठतपसः पारणायां पुरागमे / रामस्योत्कण्ठया दित्सुलोकस्य तुमुलोऽभवत् // 1211 // गजा बभजुरालानं हया हेपारवं दधुः / निशम्य तुमुलं पौराश्चौरागममभावयन् // 1212 //