________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् रामस्त्रासातुरस्तत्रायासीदायासभीषणः / अमङ्गल्यक्रियां सर्वां वारयन् क्रन्दनादिकाम् // 1183 // जीवाम्यहं च मद्माता जीवनस्ति प्रमोदताम् / रोदनं नोचितं रोगे कार्या भ्रातुः प्रतिक्रिया // 1184 / / प्रयोगे मन्त्रतन्त्रादेः क्रियमाणेऽप्यनुत्थितेः / शुशोचोल्लोचनो रामो मूर्च्छन् जाग्रत् पतन रुदन् // 1185 // लक्ष्मणस्य परासुत्वे वैकल्ये लक्ष्मणाग्रजे / सुग्रीवाद्या कपिराजाः परे विभीषणादयः / 1186 / मन्यमाना जगच्छून्यं प्राणत्राणविवर्जितम् / कांदिशीका इवासंस्ते शौकाद्वैतातुरे पुरे // 1187 // अकाममृत्योः सौमित्रेभयेन लवणाङ्कुशौ / श्रामण्यं प्रतिपेदाते मुनेरमृतघोषतः // 1188 // मोहालक्ष्मणमाचष्ट किं न भाषयसेऽपि माम् / त्वदुक्तिाहता काचिन मया कुपितोऽसि किम् // 1189 // एते सभासदः सर्वे तवाज्ञां कर्तुमीश्वराः / / ईहते हंत मोहं तत् कुरुष्व रुषितोऽसि किम् // 1190 // उत्तिष्ठ पिब पानीयं शयनीयमितोऽधुना / ___ आनीय भोजनं सद्यः स्थितोऽस्मि भ्रातरद्धि तत् // 1191 / / . भ्रातरं कल्पयन्नेवं जीवन्तं जल्पयन्निव / षण्मासान् व्यतिचक्राम रामः स्नेहवशीकृतः // 1192 // श्रुत्वा वृत्तान्तमेवं ते शक्रजित्सुन्दसूनवः / ___ अयोध्यारोधनं चक्रुर्जटायुर्ददृशे च तान् // 1193 // अपूर्वपूर्वसौहार्दाद् ररक्ष रक्षसां बलात् / नगरी नगरीत्यैव शिलावर्षी सुरस्तदा // 1194 // इन्द्रजित्सूनुमुख्यास्ते देवसख्य विमर्शनात् / भङ्गात् सङ्गरतो रङ्गविमुखा व्रतमादधुः // 1195 // . जटायुरमरो रामबोधाय शुष्कपादपम् / सिषेच पाथसा बीजान्युवाप दृशदां पदे // 1196 // आयोजयन् मृतगवं लाङ्गले जाङ्गले रजः / यन्त्रे प्रक्षिप्य तैलार्थी प्रायासीत् पीलनं सृजन // 1197 //