________________ 210 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् | श्रीपद्म न तातयोरियत्कालं कोऽपि भेदो निरीक्षितः / ____ अस्माकं तद्वदेवास्तु स एव देवशासनात् // 1169 // इति तद्वचसा शान्ता वीक्षापन्नाः महौजसः / लाक्ष्मणेयाश्च वैराग्याद् दीक्षां साधोः प्रपेदिरे // 1170 // इतश्च नगरे स्वीये चन्द्रशालासु लीलया / भामण्डलनृपोऽध्यास्य सिंहासनमचिन्तयत् // 1171 // जातः कृतार्थः सर्वत्र कीतिर्नर्नत्ति विष्टपे / ___ अतः परं साध्यमेतत् श्रामण्यं पुण्यतो भवेत् // 1172 // एवं चिन्तयतो मूर्टिन शंपाकम्पात् पपात हा / देवकौरवयुग्मित्वं स लेभे भद्रकाशयात् // 1173 // हनुमानपि चैत्यानि नत्वा मेरौ निवर्तयन् / सूर्यमस्तंगतं प्रेक्ष्य तत्राऽस्तं यत्र चोदयः // 1174 // विमृशन्निति राज्ये स्वं सुतं न्यस्य प्रशस्यधीः / धर्मरत्नाचार्यपार्श्वे जग्राह व्रतमुत्तमम् // 1175 / / राज्ञी सार्द्धसप्तशती तेन सार्द्धमुपादित / दीक्षां लक्ष्मीवती पार्श्वे स्थिता स्थिरतराशया // 1176 // श्रीशैलः प्राप शैलेशी तपसा कर्मनाशनात् / ___ भासनात् केवलज्ञानज्योतिषः शिवमीयिवान् // 1177 // मुक्त्वा साम्राज्यसौख्यानि किं तीव्रतमाददे / रामस्येत्याशयं शक्रो मत्वा तत्त्वाज्जगाविदम् // 1178 // स्वार्थाय नोद्यतोऽद्यापि रामः कामवशंवदः। स्नेहबन्धो विलम्बाय बन्धो ज्ञानं विसंवदेत् // 1179 // देवयुग्मं परीक्षायै प्राप्तं रामे वनं गते / उपलक्ष्मणमाक्रन्दस्वरमन्तःपुरे दधत् // 1180 // इत्याकस्मिकशोकेन लक्ष्मणः स्तब्धपक्ष्मणा / दृशाऽप्यवीक्ष्य रामं द्राग् जहौ प्राणान् सदःस्थितः // 1181 // नारायणं मृतं मत्वा रुसदुर्दुःखकातराः / अवरोधस्त्रियस्त्यक्तकचबन्धाः स्फुटस्तनाः / 1182 /