________________ 204 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म अब्रवीत् सारथी रथ्याः श्रान्ता मिथ्याभ्रमश्रमात् / तत् किङ्करः किं करोति रामोऽप्याह पुनश्च तम् // 1078 // ममाऽपि करशैथिल्यं धनुर्गुणच्छिदा पुनः / मुशलं कुशलं नैतद् वैरिघाताय जायते / 1079 / वैफल्ये सर्वशस्त्राणां शस्त्रशास्त्रविचक्षणौ / अभूतामाकुलधियौ सुधियौ रामलक्ष्मणौ / 1080 / . अत्रान्तरे कुशोन्मुक्तः पृषत्को लक्ष्मणोरसि / लग्नस्तत्कोपवाहिश्च सौमित्रेः प्राज्वलद् भृशम् // 1081 // मुमोच चक्रं सौमित्रिरङ्कुशाय कुशाग्रधीः / / तत् तं प्रदक्षिणीकृत्य प्रत्यायातं करे हरेः // 1082 // चक्र विफलतां प्राप्ते विषण्णौ रामलक्ष्मणौ / नारदोऽभ्येत्य जगदे प्रारब्धं किमिदं मुधा // 1083 // पुत्रावेतौ तवाऽऽश्लिष्य स्वोत्सङ्गमधिरोपय / / सीताङ्गजौ वज्रजङ्घवधितौ स्पद्धिनौ न ते // 1084 // इत्युक्तितुष्टः काकुत्स्थः स्वस्थः सर्वाङ्गरङ्गतः / लवणाङ्कुशपार्श्वेऽगात् सह सौमित्रिणा क्षणात् // 1085 // तावप्युत्तीर्य रथतः पादचारात् प्रणेमतुः / जज्ञे जयजयारावः पक्षयोरुभयोरपि / 1086 / वज्रजचनृपं रामो मेने भामण्डलोपमम् / वीर्य धैर्य विचार्येति जहषुः सर्वभूभुजः / 1087 / जानकी ज्ञानकील्देव॒द्धये शुद्धिमैहत / पुर्यागमे प्रार्थिताऽपि लक्ष्मणाद्यैर्नृपोत्तमैः / 1088 / रामोऽपि लोकाशंसायै तदेव प्रत्य तिष्ठिपत् / सीता शुद्धाऽपि मच्चित्ते वह्नावहाय तिष्ठतु / / 1089 // तच्छुद्धये द्विपुरुषीद्वयसं गर्त्तमायतम् / शतत्रयं नृहस्तानामखानयत् रघूद्वहः // 1090 // चन्दनेन्धनसम्पूर्ण परितो लोकसङ्गमे / विलोकनाय सर्वेषां स्थापयामास मञ्चकान् // 1091 // वैताढयस्योत्तरश्रेण्यां हरिविक्रमसेनभूः / जयभूषणनामाऽऽसीत् कुमारः स्फारविक्रमः // 1092 // शताष्टकवधूकान्तः कान्तां किरणमालिकाम् / सुप्तां मातुलपुत्रेण समं हेमशिखेन च // 1093 //