________________ चरितम् लघुत्रिषष्टिशलाकापुरुषचरितम् [ 203 मातरं जातरंगौ तौ नत्वा भामण्डलं नृपम् / सीतोक्त्या मातुलं ज्ञात्वा प्रणयेन प्रणेमतुः // 1062 // वत्सौ नैवोचितं युद्धं पित्रा सौमित्रिणाऽपि च / ___ भामण्डलगिरा चेति तौ प्रत्यूचतुरानतौ // 1063 // त्वजामेयौ रामपुत्रौ भ्रातृव्यौ लक्ष्मणेशितुः / स्वजेयातां प्राकृतवत् कथं हीकारणं तयोः // 1064 // ततः समरसंरम्भे सुनासीरे प्रसर्पति / दर्पात् सर्पा इव क्रोधाद् योधा युयुधिरे मिथः // 1065 // भामण्डलेन सुग्रीवादयः प्रज्ञापिताः पुरा / बभूवु तुरा युद्धे सीतानमनमादधुः / 1066 / रामसैन्यं दधदैन्यं किश्चिद् वलितुमाकुलम् / तयोरनीकादायातेर्बाणपातैस्तिरोहितम् / 1067/ रामः सलक्ष्मणः पश्यन् तयोस्समरकौशलम् / - तारुण्यात् पुण्यनैपुण्याद् विस्मयं बभ्रतुर्हदि // 1068 // नाऽनयोः पूर्व जैर्वैरं काविमावागतौ कुतः। ____न विज्ञातौ च दोष्मंतावियताऽनेहसांऽहसा // 1069 // चक्रं नाक्रमते योद्धमस्मदीयं मदातवत् / अस्मन्मनो विनोदायोत्सहते न हतेविधौ / 1070 / हर्षद्वेषरसावेशादुत्सुकौ बलशाङ्गिणौ / आरेभाते मन्दयुद्धं सेनां ददृशतुः स्थिराम् / 1071 / प्रवणो लवणो राममियायाऽभिमुखो रणे / अरौत्सील्लक्ष्मणरथं सोङ्कुशः कुशलो विधौ // 1072 // शराशरि प्रकुर्वाणौ परस्पररिरक्षया / कौतुकं दधतुः सूरपूरे दूरेण वीक्षितौ // 1073 // कृतान्तवदनो रामसारथिर्वव्रजंघराट् / लवणस्य सारथित्वं बभार निशितायुधः // 1074 // विराधो लक्ष्मणरथी पृथुः सारथिराङ्कुशः / / चत्वारो भ्रामयामा रथान् भानुरथोपमान् // 1075 // लक्ष्यमस्पृशतो दाक्ष्यात् क्षत्रियाविव शिक्षणे / शरान् मुमुचतू रामलक्ष्मणौ लवणाङ्कुशौ // 1076 // रिक्त पृषत्कैस्तूणीरे रामः सारथिनं जगौ।। - लवणाभिमुखो नेयो रथो हन्मि यथा रिपुम् // 1077 //