________________ 202 ] महोपाध्यायश्रीमन्मेघविजयविरचितम | श्रीपद्म सुतादानाग्रहोद्भूतविरोधात् सैन्ययोमिथः / पृथुयुद्धे जायमानेऽनेशद् वनेऽविशद्भयात् // 1045 // अज्ञातवंशजाताभ्यामावाभ्यां ज्ञातवंशजाः / नश्यन्ति नोचितं तद्वस्ताभ्यां पृथुरहस्यत // 1046 // ततोऽभ्युपेत्याङ्कुशाय पुत्री कनकमालिकाम् / __ प्रदत्त स्वरसेनैव विचार्यावार्यवीर्यताम् // 1047 // आगतस्तत्र देवपिरनयोवंशवर्णनम् / जगादाखजिनाधीशादारभ्य सभ्यनन्दनम् // 1048 // प्रत्यक्षावनयोस्तातपितृव्यौ रामलक्ष्मणौ / जनापवादात् त्यक्तायां जानक्यां सम्भवोऽनयोः // 1049 // लवणः पृष्टवानस्मात् कियरेऽस्ति कौशला / पष्टियुग्योजनशतमिति मत्वाऽथ सोऽवदत् // 1050 // . . मातुलादेशयोत्तानाशयप्रायौ तवाऽधुना / रामलक्ष्मणयो रूपं दिदृशू क्षत्रियाऽध्वना / 1051 / शशिाचूलपिता वज्रजङ्घः कनकमालिकां / दत्त्वा पृथुरपि तयोर्जज्ञाते सहकारिणौ / 1052 / साधनं प्रथमं ताभ्यां कृतं लोकपुरेशितुः / कुबेरकान्तभूभर्तुर्मानिनोऽप्यवनामनात् / 1053 / एककर्ण चलंपाकेष्वतो भ्रातृशताह्वयम् / भूपति विजयस्थल्यां वशीकृत्य प्रवेलतुः / 1054 / नृनाथाः कोटिशश्चक्रे सेवकीभूय सङ्गताः / गङ्गाप्रसङ्गादागत्य सैन्धवाश्च महीधवाः / 1055 / उपेयतुस्तौ सैन्यानां नानायुधयुधां भरैः / ___ उपायोध्यं विशोध्यैतौ रणभूमिपदं स्थितौ // 1056 // नृणां दशसहस्राणि कुठारायुधधारिणाम् / छिन्दन्ति वनवृक्षादीन् भूभागे समतां व्यधुः // 1057 // तयोनिरोधनाय द्रागभ्यमित्रीणतां दधत् / सौमित्रिश्चित्रवच्चेतास्सीमायां समुपाययौ / 1058 / इतो नारदसंदेशाद् भामण्डलोऽपि जानकीम् / पुण्डरीकपुरे नत्वाऽपृच्छद् विदेशकारणम् // 1059 // स्वपुत्रयोरबोधेन कुपितौ रामलक्ष्मणौ / अनयोरनयोद्भेदं कुर्यात् तां रामलक्ष्मणौ / 1060 / गच्छावस्तावदित्युक्त्वा स्वसारं सह चादधे / भामण्डलस्तयोः सैन्ये जगामोद्दामरूपवान् // 1061 //