________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [201 एनां दृष्ट्वा चमूनाथः पप्रच्छ स्वच्छमानसः। मा भी(रु स्वसुस्तुल्यां वात्सल्याद् वच्मि साम्प्रतम् // 1031 // काऽसि त्वं निःसृता कस्मादकस्माद् गर्भधारिणी / नृपेण पृष्टाऽभाषिष्ट सा वृत्तं पूर्वसम्भवम् // 1032 // तन्मन्त्री प्राह वैदेहीं वज्रजंघो नृपोऽस्त्ययम् / स्वसारमिव निर्वाधां त्वां रक्षिष्यति धार्मिकः // 1033 // पुण्डरीकपुरं नीत्वा दत्त्वा सौधं यथेप्सितम् / तां ररक्ष प्रसतायां तस्यां चक्रे स चोत्सवम् // 1034 // पुत्रयुग्मं प्रसूताऽसौ नृपोऽथ विदधेऽभिधाम् / लावण्याधिक्यमालोक्य लवणः प्रथमोऽस्त्वयम् // 1035 // . द्वितीयेऽप्यद्वितीयत्वात् तेजसा वैरिवारणे / भविष्यत्यकुश इव दधे नामाङ्कुश स्त्विति // 1036 / / लाल्यमानौ च धात्रीभिः पाल्यमानौ च भूभुजा / क्रमात् प्रवृद्धौ शिक्षाहौं कला जगृहतुः शुभाः // 1037 / / तत्राऽभ्युपेतः सिद्धार्थोऽणुव्रती भूतले भ्रमन् / विद्याबलेन सम्पूर्णः स तूर्ण सीतयाऽशितः // 1038 / / तेन पृष्टा समाचष्ट वृत्तं चरितमात्मनि / भविष्यतः स्वतः पुत्रौ नवीनौ रामलक्ष्मणौ / 1039 / तदाश्वासनया प्रीता सीता तं रक्षति स्म वै / पुत्राध्यापनमुद्दिश्य धनुर्वेदादि सत्वरम् / 1040 / इतः समागते वेगात् सेनान्यां विरहादितः / रामोऽपृच्छद् वनस्थानं तदरण्यं समाययौ // 1041 // तां तत्राऽप्राप्य शोकार्तस्त्यागेऽपि विनयान्वितम् / / हितं वचः स्मरँश्चक्रे सीतायाः प्रेतकर्म सः // 1042 // वज्रजङ्घनृपो.लक्ष्मीवतीजातां निजाङ्गजाम् / द्वात्रिंशतं चान्यकन्या लवणेनोदवाहयत् / 1043 / पुनरङ्कुशजामेयविवाहार्थं पृथुनृपः / याचितोऽपि सुतां नादाद् वंशाज्ञानेन सा स्थितिः // 1044 // ल. त्रि. 26