________________ 200 ) महोपाध्यायश्रीमन्मेषविजयविरचितम् [ श्रीपम रहस्तदहरासाद्य जगुर्देव्याः समन्ततः / परीवादः प्रववृते तदुपायं विचारय // 1016 / / रिरंसया रावणेन सीता माता न दूषिता / पतिव्रताऽक्षता यातेऽतिश्रद्धा नास्ति कस्यचित् // 1017 // तदस्याः श्यामलं वासो नोज्ज्वलं चेत् करिष्यसि / तदापवादप्रसरः कर्ता सकलमाकुलम् // 1018 // स्वराजकुलमालिन्यान् मलं मन्यामहेऽखिलम् / भूतलं तव सूर्यस्याभ्युदये नैतदर्हति / 1019 / तान् विसृज्य स्वयं रामो निर्जगाम पुरे निशि / ___ तत्राऽपि लोके तद्वार्ता शृण्वन् दोदूयते स्म च // 1020 // चरेभ्योऽपि तथा प्राप्तप्रवृत्तेनिश्चिताशयः / .. लक्ष्मणाद्यै निषिद्धोऽपि रामस्तां त्यक्तुमैहत // 1021 // कृतान्तवदनं सद्यः समाहूयेति चाऽदिशत् / सीतां संमेतयात्रायै नय तादृशदोहदाम् / 1022 / सोऽपि सम्मेताचलस्य यात्रायै मां तवादिशत् / इत्याख्याय रथे सीतां निवेश्य प्राचलत् ततः // 1023 // . गङ्गासङ्गे सागरस्य वनेऽतिपवने घने / विजने जानकी मुक्त्वा यियासुं साऽवदत् तदा // 1024 // . किं करोषि स चाऽवोचद् रामशासनमीदृशम् / . तच्छ्रुत्वा मूर्च्छयाऽऽक्रान्ता कान्ता कान्ताऽपमानतः // 1025 // पवनोऽपवनादेत्य तां वितेने सचेतनाम् / नाथ मिथ्यादृशां वाचा मामत्याक्षीद् यथा तथा // 1026 // त्यक्तुमर्हसि नाईद्धिर्भाषितं धर्ममीशितः / कर्मणां प्रेरणा दद्यादद्याऽपि तत्सुखासुखे / 1027 / स्वस्त्यस्तु वस्तुतो भर्ने लक्ष्मणाय सुलक्ष्मणे / शिवस्तवाऽपि पन्थाश्चेत्याशिषं प्रददे पदे // 1068 // अथ सीता वने घोरे भ्रमन्ती कर्मदूषणम् / चिन्तयन्ती नमस्कारं ध्यायन्ती पर्यटच्चिरम् // 1029 // तत्रागतं बलं किञ्चित् तां प्रेक्ष्य भयमाश्रयत् / सीताऽपि भीता वाहिन्या व्यलपीद् रोदनातुरा // 1.30 //