________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 197 चन्द्रभद्रनृपः प्रैषीन् मन्त्रिणस्तेऽचलं नताः / प्रत्यावृत्त्य स्वरूपेणाख्याने तं पुर्यवेशयत् // 972 // निर्वास्यमानांस्तान् भ्रातृन पित्राऽप्यदृष्टसेवकान् / ररक्षैक्षिष्ट नगरेऽचलोऽषं द्वास्थवारितम् // 973 // बहुमानात् तमानाय्य श्रावस्तीराज्यमप्यदात् / समुद्राचार्यपाधै तौ वतिनौ विनयंधरौ // 974 // सुरौ बभूवतुः कल्पे पञ्चमे सुखशालिनौ / ततश्चयुत्वाऽचलजीवः शत्रुघ्नस्तव बान्धवः // 975 // अङ्कजीवः स सेनाया नायकस्तव वास्तवः / __कृतान्तवदनो नाम्ना धाम्नां स्थाम्नां महास्थलम् // 976 // इतः श्रीनन्दनो राजा प्रभानामपुरेऽभवत् / ___धारिण्यां तस्य कान्तायां बभूवुः सप्त दारकाः // 977 // सुरनन्दोऽग्रजस्तस्मात् श्रीनन्दस्तिलकः श्रियाः / 'श्रीसुन्दरो जयन्तश्च चमरो जयमित्रकः // 978 // राज्ञि श्रीनन्दने दीक्षामाददानेऽङ्गजाः समे / समं समङ्गलं तां च भिक्षवस्ते जिघृक्षवः / 979 / पुत्रपुत्रं न्यस्य राज्ये राजा प्रीतिकरान्तिके / . प्रव्रज्य सिद्धिसाम्राज्यं लेभे क्षोभविवर्जितम् // 980 // ते सप्ताऽपि तपःक्षिप्तदुष्कर्माणः सलब्धयः। मथुरां मधुरामेत्याविधुरादधुराश्रमम् / 981 // प्रावृषं वृषमुद्दिश्य मन्यमानाः प्रथीयसीम् / षष्ठाष्टमतपोलीनाः कुर्वाणाः शैलकन्दरे / 982 / नमसोत्पत्यते दूरदेशे पारणकारिणः / तत्प्रभावाद् रुजां भावाविषयात् क्षयमाययुः / 983 / अयोध्यायां पारणायामहद्दत्तगृहेऽविशन् / - श्रेष्ठिना निन्द्यमानास्ते वध्वा तु प्रतिलाभिताः // 984 // तत्र द्युतिपतिः सूर्यियुः सप्ताऽपि तत्पदे / __ सत्कृताः सूरिणा नत्या तच्छिष्यैश्चावहीलिताः // 985 // अकाले विहरन्तीमे भूतले जन्तुसंकुले / सूरिदत्तासनास्तत्र विधाय पारणां ययुः // 986 // आयाता मथुरापुर्या तन्निन्दाकरणे द्युतिः / अवदच्चारणा एते न भूतलविहारिणः // 987 //