________________ 196 ] महोपाध्यायश्रीमन्मेषविजयविरचितम् [श्रीपद्म मधौ गते पूर्वदिशि कुबेरोद्यानदृष्टये ! प्राविशनिशि शत्रुघ्नस्तं चारुणन्मधुर्बली // 953 // परस्परं घोररणः प्रावर्तत तयोस्तदा / कुम्भपातासिघाताद्यैः पत्तिवर्गे विपत्तिदः // 954 // प्रथमं लवणे पुत्रे मधोनिपातिते क्रुधा / अधाविषत तच्छ्राद् दूरात् तर्जनकारिणः // 955 // आयोधनं हि शूराणामायोधनमिदं मतम् / योऽभयद्रुततामेति नियमात् सोऽभयद्रुतः / 956 / नारायणप्रदत्तेन धनुषा बाणघाततः / पातितो भूतलेऽध्यासोन्मधुर्विधुरिताङ्गभाक / 957 / मधुः प्रवजितः स्वर्गे तृतीये सुरतामधात् / चितायां ववृषुर्देवाः सेवा येषां पुराकृता // 958 / / तद्वैराच्चमरेन्द्रेण शत्रुघ्नविषये रुजाः। प्रवर्तिताः प्रजाबाधात् शत्रुघ्नो दुःखितामधात् / / 959 // कुलदेव्याश्च हेतूक्तौ साकेते सुप्रभात्मजः / ययौ देशादिभूषान्तं मुनि पप्रच्छ राघवः / 960 / स्वामिन्नयं तु मबन्धुर्मधुराग्रहवान् कथम् / मुनिराह पुराऽमुष्यां नैकशोऽभूद् भवे द्विजः // 961 // श्रीधरः साधुसंसेवी दृष्टो मार्गान्तरे व्रजन् / . रूपवान् ललितादेव्या नीतश्च स्वान्तिके तया // 962 / भूपे समागते राज्याऽवादि चोरोऽयमीशितः / / ततो धृत्वा वधस्थाने नीतो व्रतं प्रपन्नवान् // 963 // कल्याणमुनिना भूपान्मोचितः सोऽचिरात् तपः / __ तप्त्वा देवोऽभवत् तस्माच्च्युतोऽगान्मथुरापुरे // 964 // चन्द्रभद्रनृपस्य स्त्री नाम्नाऽपि काञ्चनप्रभा / अचलस्तनयो धैर्यात् प्रथितः पृथिवीतले / 965 / राज्ञोऽस्मिन् बहुधा प्रीतिं विमृश्य भ्रातरः परे / जिघांसवस्तं मत्वैव मन्त्रिणो निरकासयन् // 966 // मार्गे कण्टकविद्धांहिरङ्कनाम्ना पटूकृतः / कलया कण्टकाकर्षात् हर्षादकं जगाद सः / 967 / अचलो मथुराधीशस्त्वया श्रूयेत चेत् तदा / तत्रागम्यं त्वरयैव त्वं मेऽसि हितकारकः / 968 / कोशाम्ब्यामचलो गत्वा लक्षवेधमदर्शयत् / इन्द्रदत्तनृपस्याऽग्रेऽभ्यस्यतश्चापचालनाम् / 969 / अदत्त दत्तां पुत्री स्वामिन्द्रदत्तश्चमत्कृतः / अजैषीद् विषयानेष सविशेषबलश्रिया // 970 // मथुरामागतो भानुप्रमुखैबलरोधिभिः / विधाय युद्धं स्वभ्रातृन् बबन्धाऽष्टाग्रजानपि / 971 /