________________ चरितम् | लघुत्रिषष्टिशलाकापुरुषचरितम् / / 195 कृत्वा दत्तेन संकेतं द्विजेन रमणोऽन्तरे / उत्थापितो दत्तबुद्धया तया रेमे यथेच्छया / 935 / द्रष्टुं निजस्त्रिया रतिविनोदं पृष्टलग्नवत् / समेत्य चरितं प्रेक्ष्याऽवधीद्रमणमेव सः / 936 / रमणस्य क्षुरिकया विनोदः शाखया हृतः / / भ्रान्त्वाऽनेकभवान् क्याऽपि श्रेष्ठिसूनुर्धनाह्वयः // 937 // धनस्य पुत्रो रमणजीवो भूषणसंज्ञया। विवाहितो धनेनाऽयं द्वात्रिंशत्कन्यकापतिः / 938 / नन्तुं गच्छन् केवलिनं श्रीधरं दुर्द्धराहिना / दष्टः शुभगतीः प्राप्य विदेहेऽप्यवतीर्णवान् // 939 // .. चक्री रत्नपुराधीशोऽचलश्च हरिणी प्रिया / सूतोऽभूदनयोः श्रेष्ठः प्रियदर्शनसंज्ञया // 940 // त्रिसहस्रीं मृगदृशां परिणीतोऽपि शान्तधीः / - चतुःषष्टिसहस्राणि वर्षाणां तेपिवाँस्तपः / / 941 // प्रान्तेऽनशनतो मृत्वा पञ्चमे कल्पके सुरः / विनोदजीवोऽथ धनोऽवतीर्णः पोतनेपुरे / 942 / शाकुनाऽग्निमुखब्रह्मपत्न्यां मृदुमतिः सुतः / - धूर्तमुख्यश्चौर्यचर्याचार्यों वेश्यासु रागवान् // 943 // प्रान्ते श्रामण्यमास्थाय सुरः पञ्चमकल्पभूः / च्युत्वा पूर्वभवस्नेहाद् भुवनालङ्कृतिगंजः // 944 // रावणस्य त्वयाऽग्राहि भरतोऽयं तवाऽनुजः / .. प्रियदर्शनजीवोऽभूद् गजः शान्तस्ततोऽजनि // 945 // . ततः स भरतो भूपसहस्रपरिवारितः / वैराग्याद् व्रतमादाय तपस्तप्त्वा शिवं ययौ // 946 / / राज्ञां सहस्रमध्येऽपि लब्धिपात्राणि जज्ञिरे / केचित् केवलिनः केचिदवधिज्ञानशालिनः // 947 // कैकेयी भरतमाता जाता प्रवत्तिनी गणे / तीव्र व्रतं समादाय प्रपेदे पदमव्ययम् // 948 // राज्ये विभज्यमानेऽदाल्लङ्कां बिभीषणाय सः / कपिद्वीपं च सुग्रीवभूपाय लक्ष्मणाग्रजः / 949 / श्रीशैलाय श्रीपुरं च भामण्डलमहीभुजे / वैताढ्यश्रेणियुगलाधिपत्यं सत्यशालिने // 950 // शत्रुघ्नो मथुराग्राही रामेणोक्तस्तथाऽस्त्विति / परं वत्स त्वया साध्या दुःखेनच्छलितः स्थलम् // 951 // शूलं राज्ञस्तत्र मधोरपिंतं चमरेण तत् / वैरिसैन्यं निहत्यैति पाणौ बाणौषधारिणि // 952 //