________________ 194 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् / श्रीपद्म भरतस्तरसाऽभ्यागात् ससैन्यः समहोत्सवम् / रामस्य पादयोर्लग्नः प्रणयात् तन्मयाशयः / / 920 // ननाम रामः कौशल्यां परनाम्नाऽपराजिताम् / कैकेयीं चापराख्यानात् सुमित्रां चित्रचित्रिताम् // 921 // एवं मिमीले सर्वोऽपि स्वजनः सत्कृतो मिथः / / अन्योन्योपायनैः प्रीतिदानस्ताभ्यां यथोचितम् // 922 / / रामं विज्ञपयामासाऽन्यदा भरतभूपतिः / देवाज्ञया स्थितो राज्ये सम्प्रति प्रव्रजामि तत् / 923! न युक्तमस्मदागत्यां सद्यस्ते व्रतधारणम् / गृहे स्थितोऽप्यनाज्ञातो वैराग्यं भरतोऽदधात् / / 024 / / एकदा सरसि क्रीडां कृत्वा तस्य तटे स्थितः / भरतस्तत्र मत्तेभोऽभ्यगादालानभञ्जनात् // 925 // भुवनालङ्कारनामा हस्ती भरतदर्शनात् / प्रशान्तो रक्षकैनिन्ये स्वालानस्थानमञ्जसा // 926 // देशभूषणनामैकः परस्तु कुलभूषणः / आगतौ द्वौ मुनी रामादिभिश्च विनयान्नतौ // 927 // पृष्टोऽथाख्यत्केवली स भरतप्राग्भवस्थितिम् / श्रीआदिनाथदीक्षायां प्रपन्ना भूभुजो व्रतम् // 928 // आहाराऽप्राप्तितो वन्यास्तापसास्तेषु तापसौ / चन्द्रसूरौ चिरं भ्रान्त्वा चन्द्रः कुलकरो नृपः // 929 // जातो हरिमतेः पुत्रश्चन्द्रलेखोदरान्तरे / पुरे नाम्ना गजपुरे सूरोऽप्यत्रैव जातवान् // 930 // युग्म विश्वभूतिद्विजस्याऽग्निकुण्डायां तनयः सुधीः / नाम्ना श्रुतरतिस्तेन प्रेम्णा सक्ता नृपप्रिया // 931 // कुलकरस्तु श्रीमत्या हतः पुरोहितोक्तितः / सविषानप्रदानेन राजगृहेऽवतेरतुः // 932 // वैरात्तौ कपिलात् पत्न्यां सावित्र्यां तनयावुभौ / युग्मिनौ कलहायन्तौ विनोदरमणाभिधौ // 933 // रमणोऽन्यत्र वेदाँश्च पठित्वाऽगात् पुरान्तिके / सुप्तो यक्षगृहेऽकालात् शाखा भ्रातृवधूरपि // 934 //