________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 193 गीयमाना देवदेवीवृन्दैव्रतपरीक्षया / नीयमानाऽवरोधान्तः पत्या सा मुमुदेतराम् / 904 / भ्राता भामण्डलो भृत्यः पावनिर्देवरः पुनः / लक्ष्मणः सहसुग्रीवोऽदूषणां तां बिभीषणः // 905 / / दत्ताशिषं नमश्चक्रे सामन्तादिः परिच्छदः / जानकी ज्ञानकीयोश्च राजधानी पतिव्रताम् // 906 // युग्मं रावणावासमाविश्य मणिस्तम्भसहस्रयुक् / चैत्यं दृष्ट्वा शान्तिबिम्बमानमद् रामपार्थिवः // 907 // तत्र देवार्चनं स्नानभोजनादिविधि सुधीः / विदधे परिवारेण रावणाऽनुजमाननात् // 908 // राज्यं भुजौजसाऽवाप्तं स्वीकुरुष्वाधुना प्रभो / कुर्महे त्वयि तद्राज्याभिषेकं तव शासनात् // 909 // बिभीषणप्रार्थनायामूचे देवः स्वसेवकम् / दत्तं प्रथमंतस्तुभ्यं सभ्यानां न वचोऽन्यथा / 910 / रामं रावणगेहस्थं मत्वा सिंहोदरादयः / . कन्या निन्युः प्राग् विवोढुं स्वीकृताः सुकृतोदयात् // 911 // तद्विवाहं यथायोगं विदधाते रघूद्वहौ / सुग्रीवाद्यैः सेव्यमानौ षडब्दी तौ व्यतीयतुः / 912 / रावणी विन्ध्यशैलस्य भुव्यनालस्य योगतः / प्रापतुः सिद्धिसौधं तत् तीर्थ मेघरवं श्रुतम् // 913 // रेवायां कुम्भकर्णपिरलश्चक्रे शिवालयम् / पृष्ठरक्षितमित्यासीत् तत्तीर्थमभिधाविधेः // 914 // अयोध्यायां बलहर्योर्मातरौ दुःखकातरे / ऐक्षिष्ट नारदो द्वीपाद् द्वितीयादागतो व्रती // 915 // नभसोऽपेत्य लकायां रामाय सानुजन्मने / शशंस मातृवर्गस्य दुःखं वियोगधारिणः / 916 / काकुत्स्थस्तन्मिमिलिषुर्विभीषणमदोऽवदत् / मातृवर्गश्चिरं मुक्तस्तद्युक्ता तत्र नो गतिः / 917 / नत्वा बिभीषणोऽप्यूचे षोडशाहानि तिष्ठतु / कुर्वेऽयोध्यां नवां स्वीयशिल्पिभिर्नायकोचिताम् // 918 // षोडशेऽह्नि समारुह्य पुष्पकं रामलक्ष्मणौ / कौशलाजग्मतुः शीघ्रं मिलितुं कौशलादिकाम् // 919 // ल. त्रि. 25