________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 189 विन्ध्यनामा सार्थवाहः प्राप्तो गजपुरात् पुरा / ___भारमुग्नो भूमिपाती ललधे सैरभो जनैः // 847 // नृणां पादप्रहाराद्यैरकामनिर्जराबलात् / विन्ध्यस्य महिषो वायुकुमारोऽभूत् सुरो महान् // 848 // कोपेनोत्पादिता रोगास्तेन श्वेतकरे पुरे / ___दिशांतरे परं व्याप्तात्मन् मातुलगृहे न ते // 849 // मया पृष्टो मातुलोऽवक द्रोणमेघः स्वसुः सुत / शृणु प्रियङ्करा पत्नी ममाऽभूद् व्याधिबाधिता // 850 // गर्भे जाते रुजा नष्टा पुत्री जाता क्रमादियम् / नामाऽस्या निदधे तस्माद्विशल्या स्नाननीरतः // 851 // अजायन्त प्रजास्त्यक्तरुजा जनपदेऽखिले / - स्नानाम्बुना जना येऽपि तद्देश इव सुस्थिताः // 852 // आप्रभातात् तदा नेयं विशल्या स्नानवारि च / भामण्डलोऽङ्गदोऽचालीत् साञ्जनेयोऽपि कौशलान् // 853 // प्रबोध्य भरतं सुप्तं तं सहादाय ते ययुः / रावावेवाऽशु वेगेन पुरं कौतुकमङ्गलम् // 854 // . याचितो द्रोणमेघोऽपि विशल्यां प्रेषयाङ्गजाम् / .. स्त्रीसहस्रयुता दत्तेत्यवक् सौमित्रये मया // 855 // मुनिनाऽप्युक्तमेतस्याः पतिर्भावीह लक्ष्मणः / / अस्याः स्नानाम्भसा रोगशल्योद्धारो नृणां भवेत् // 856 // साकेतं भरतं मुक्त्वा भामण्डलः स पावनिः / ज्वलद्दीपविमानस्थस्तां निनायोपराघवम् / 857 / स्पृष्टस्तया च सौमित्रिरुत्तस्थावंगपाटवात् / अहो महो महत्पूर्वभवेऽपि तपसः कृतेः // 858 // तस्या विवाहः सोत्साहो जज्ञे सौमित्रिणा समम् / तत् . तूर्यनादालंकेशो विषादतरमासदत् // 859 // प्राहिणोद् दूतमाकूतं ससाम स्वीयमाश्रयन् / रावणोऽराऽवणोरन्यं भाग्योदयमयं विदन् // 860 //