________________ 188 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म कुम्भकर्णेन युयुधे रामो रावणिनाऽनुजः। नीलेन सत्रा श्रीसिंहजघनोऽनघविक्रमः // 832 // घटोदरेणऽऽरेभे स दुर्मुखः समरं ततः / स्वयंभुवा दुर्मतिश्च शम्भुना नलपार्थिवः / / 833 // अमुचल्लक्ष्मणायाऽस्त्रमिन्द्रजित् तामसं स च / अवारयत् तापनाऽस्रो तं निबद्धयाहिपाशतः // 834 // रामस्तथा कुम्भकर्णमबध्नान् मेघवाहनम् / भामण्डलः क्रमादेवं राक्षसाः कपिभिः परैः // 835 // दशास्ये पश्यति सति निबद्धान राक्षसाँस्तदा / नीयमानान् पद्मनाभशिबिरे विस्मिता जनाः // 836 // सरोषणस्तल्लकेशः शूलं चिक्षेप दुष्टधीः / बिभीषणाय सौमित्रिस्तच्चिच्छेदान्तरा शरैः // 837 // बिभीषणवधायाऽथ शक्तिं दशमुखो दधे / तामन्तरेव सौमित्रिरग्रहीत् साऽपतद् हृदि // 838 // तद्भिन्नो लक्ष्मणोऽपप्तत् भुवि रामः क्रुधान्धितः / पश्चाननरथस्थायी रावणं हन्तुमुद्यतः // 839 // भ्रातृनाशादस्य नाशो साहचर्याद् भविष्यति / ___ विमृशनिति लङ्कायां प्राविशद् दशकन्धरः // 840 // लक्ष्मणे मूच्छिते पद्मोऽप्यशोची किमतः परम् / __ भावि देवं च किं कर्तृ भ्रातृनाशे न मे स्थितिः // 841 / / / बिभीषणो बभाषेऽथ यावत् तिष्ठति यामिनी / तावता मन्त्रयन्त्रादिविधिनाऽसौ प्रशाम्यति // 842 // वाल्लक्ष्मणरक्षायै सप्तकृत्वो बलाधिका / चतुर्दारान् प्रतिद्वारं तस्थौ नृपचतुष्टयी // 843 // इतः कोऽपि खगः प्राप्तो भामण्डलस्य सेवकः / प्राह सङ्गीतपूर्नाथः शशिसुप्रभयोः सुतः // 844 // प्रतिचन्द्रोऽहमरिणा सहस्र विजयेन सः / शक्त्याहतो लुठन् भूमौ भरतेन पटूकृतः / 845 / हे राम ! तव स भ्राता तु जन्माऽस्ति परोपकृत् / पृष्टो गन्धाम्बुमाहात्म्यमभाषिष्ट स मे पुरः // 846 / /