________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 187 न कोऽपि जिग्ये केनाऽपि बलिना छलिनाऽथवा / ___ मलिनाननमासीत् तत्सैन्ययोरुभयोरपि // 816 // तौ रावणी मुमुचतुर्नागपाशं रिपुद्वये / इतोऽपि कुम्भकर्णेन मारुतिर्गदया हतः // 817 // रामं विभीषणः प्रोचे मोचये त्रितयीमहम् / देहयादेशं त्रयी यावन्नामीभिर्नीयते पुरीम् // 818 // परं बिभीषणवचः श्रुत्वाङ्गदो महाभुजः / युयुधे कुम्भकर्णेन तद्भुजोत्क्षेपणे रणे // 819 // निर्ययौ मारुतिः कक्षापञ्जरात् खे समुत्पतन् / बिभीषणो रावणिभ्यां समं योद्धमुपाययौ // 820 // दृष्ट्वा पितृव्यमायान्तं रावणी ययतुः पितुः / तुल्येनाऽनेन नो योद्धं साम्प्रतं साम्प्रतं मनाक् // 821 // भामण्डलं च सुग्रीवं बद्धं मुक्त्वा तयोर्गतौ / रामो 'महालोचनाख्यमस्मार्षीत् त्रिदशं तदा // 822 // देवोऽप्युपेत्य पाय ददौ विद्यामनुत्तराम् / सद्यः सिंहनिनादाख्यां स्यन्दनं मुशलं हलम् // 823 // लक्ष्मणाय ददे विद्यां गारुडी तादृशं रथम् / गदां च विद्युद्वदनां पाञ्चजन्यं च शङ्खकम् / 824 / अन्यानि वारुणाग्नेयवायव्यप्रमुखाण्यदात् / उभयोदिव्यवस्वादिछत्रसिंहासनान्वितम् / 825 / ततो गरुडवीक्षातः पनगा नाशमैयरुः / जज्ञे जयजयारावः पद्मसैन्ये समन्ततः // 826 // पुनः प्रभाते रक्षोभिरक्षोभि रामवाहिनी / जाम्बवत्प्रमुखैस्तेषां चक्रे भङ्गोऽनुषङ्गतः / 827 / विलोक्य सेनादौर्बल्यं त्रिलोक्यपटुकण्टकः / स्वयं रामवधप्रेप्सुराजगाम दशाननः / 828 / तदागमे मदान मुक्त्वा कपयो न पयोऽपियन् / तृषिता अपि सम्भ्रान्त्या सर्वे शुर्दिशोदिशम् // 829 // रामाभिषेणनं मत्वा रावणेऽथ विभीषणः / ऋद्धो युद्धाय सन्नद्धस्तं रुरोध स्वबान्धवम् / 830 / अनयोरनयोत्थानं समरं प्रेक्ष्य सत्वराः / कुम्भकर्णन्द्रजिन्मुख्यास्तत्राभ्येयू रणोत्सुकाः // 831 / / 1. महालोचन:-देशकुलभूषणयोः श्रमणयोः पिता /